________________
3७८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ल.न्यास-अं अ इत्यादि-शिट्-धुट्शब्दयोर्विषयनामत्वात् पुंस्त्वम्। ४क)(पयोर्देश-काल-लिपिभेदेऽपि रूपाभेदाद् दष्टान्तमाहवज्राकृतिरिति-वज्रस्येव आकृतिर्यस्य स तथा, गजकुम्भयोरिवाकृतिर्यस्य सोऽपि तथा। ककार-पकारो चानयोः परदेशस्थावुच्चार्येते, सर्वत्र परसंबद्धावेवैतौ भवतः, न स्वतन्त्रौ, नापि पूर्वसंबद्धावनुस्वारवदिति। रेफादेशत्वात् कख-पफसंनिधावेव तयोः प्रयोगादल्पविषयत्वम, अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडित्येकवचनेन निर्देशः कृतः। अथ कथमनयोर्वर्णत्वं वर्णसमाम्नाये पाठाभावात्? सत्यम् -रेफस्य वर्णत्वात् तयोश्च रेफादेशत्वाद् वर्णत्वसिद्धिः । न च वर्णाऽऽदेशत्वेन लोपस्यापि वर्णत्वमाशङ्कनीयम्, तस्याभावरूपत्वात्, न चाभावो भावस्याऽऽश्रयो भवितुमर्हति अतिप्रसंगात्, अयमेवार्थो बहुवचनेन सूच्यते, अनुवादकत्वेन तस्य साधकत्वाभावादित्याह-बहुवचनमिति। ननु ४क)(पयोर्व्यञ्जनसंज्ञाऽपि पूर्वेषामस्ति तत् कथं तैः सह न विरोधः? उच्यते-रेफस्थानित्वेन व्यञ्जनसंज्ञाऽपीति न विरोध: ।।१६।।
तुल्यस्थानाऽऽस्यप्रयत्नः स्वः ।१।१।१७।। बृन्यास-तुल्येत्यादि-(तुल्यस्थानाऽऽस्यप्रयत्न:-) तुल्यशब्दः परित्यक्तावयवार्थः सदृशपर्यायोऽत्राङ्गीक्रियते, तथाहि -'तुल्य' इत्युक्ते सदृश इति प्रत्ययो भवति; न तु तुलया सम्मितमिति व्युत्पत्त्यर्थोऽप्युपादीयते। तिष्ठन्ति वर्णा अस्मिन्निति "करणाधारे" (५.३.१२९) अनटि स्थानम्। अस्यति परिणमयत्यनेन वर्णानिति “ऋवर्ण-व्यञ्जनाद्०" (५.१.१७) इति बहुलवचनात् करणे घ्यणि आस्यम्। प्रयतनं 'यजि-स्वपि-रक्षि-यति-प्रच्छो नः' (५.३.८५) इति ने, प्रयत्नः, ततस्तत्पुरुषगर्भद्वन्द्वगर्भो बहुव्रीहिः। यत्रेति स्थानं व्याचष्टे। (पुद्गलस्कन्धस्य) स्पर्श-रस-गन्ध-वर्णवन्तः 'पूरणात् पालनाद् वा पुतः, गलनाद् गलाः' पुद्गलाः, तेषां स्कन्धः-अनन्तप्रदेशात्मकः सङ्घातः, (वर्णभावापत्ति:-) वर्णस्याऽक्षररूपस्य भावो भवनम्, तस्याऽऽपत्तिः प्राप्तिर्वर्णरूपेण परिणामो यत्र प्रदेशे भवति तत् स्थानम् ; आत्मलाभमापद्यमाना वर्णा यस्मिँस्तिष्ठन्ति तद्वर्णोत्पत्तिस्थानत्वात् स्थानमिति भावः। तञ्च कण्ठादि, आदिशब्दस्य प्रकारार्थत्वादुरःप्रभृतीनां परिग्रहः । एतदेव यदाहुरित्यनेन दर्शयति। अयमभिप्राय:-आत्मा ह्यनादिकर्मसन्तानसन्ततौ वीर्यान्तरायक्षयक्षयोपशमजनितलब्धिमूलेन मनो-वाक्कायसम्बन्धसमासादिताऽऽत्मलाभेन द्रव्य-क्षेत्र-काल-भाव-भवसमापादितवैषम्येणाऽऽत्मपरिणामेन परिणामालम्बनग्रहणसाधकेन योगाऽऽख्येन वीर्येणाञ्जनचूर्णपूर्णसमुद्गकवदेक-द्वि-त्र्यादिसंख्येयाऽसंख्येयाऽनन्ताऽनन्तवर्गणाऽऽत्मकप्रदेशैदृश्यैरदृश्यैश्च पुद्गलैरवगाढनिचिते समन्ततो जगति वर्णपरिणामयोग्याननन्तप्रदेशान् पुद्गलानुपादाय तत्र तत्र स्थाने तं तं वर्णं परिणमय्याऽऽलम्ब्य विसृजति, यथा प्राणाऽपानतयेति। पुद्गलपरिणामत्वं च वर्णानां बाह्येन्द्रियप्रत्यक्षत्वाद् बाह्यादिभिः प्रतिहन्यमानत्वाञ्च गन्धवत्। न च गोत्वादिसामान्येन व्यभिचारः, तस्यापि सदृशपरिणामरूपतया पुद्गलपरिणामत्वादिति। किञ्च-क्वचिदयं शब्दः काञ्चिद् दिशमुद्दिश्योञ्चार्यमाणः पवनबलवशादर्कतूलराशिरिव दिगन्तरं प्रति गमनमास्कन्दति, क्वचिञ्च गिरिगुहा-गह्वरादिषु पाषाणवत् प्रतिहतनिवृत्तः सन् प्रतिश्रुद्भाव(प्रतिशब्दभाव)मापद्य उच्चारयितुरेव श्रवणान्तरमनुप्रविशति, तथा क्वचिनकुलबिलादिषु कुल्याजलमिवावरुध्यते, क्वचिदपि वंशविवरादिषु मुक्तार्द्धमुक्ताद्यङ्गुलिप्रयोगभेदेनानेकधा विकारमुपयाति, तथा कंसादिषु पतितः सन् तदभिघाताद् ध्वन्यन्तरप्रादुर्भावकारणं भवति, क्वचिञ्च परुषप्रयोगजनितः सन् दण्डघात इव कर्णपीडामुत्पादयति, तथा क्वचिद् गतिज(क्वचिदतिजव)बहलहयखरखुरपुटादिजातवेगः सन् घनान्यपि द्रव्याणि भिनत्ति, एवंप्रकारस्य विकारस्य पुद्गलपरिणामभाविनो दर्शनादनुमिमीमहे-पुद्गलपरिणामः शब्द इति। यदाहुरिति परोक्तेन स्वोक्तमेव द्रढयति। आस्यं व्याचष्टे-अस्यत्यनेनेति-किं पुनस्तत्? लौकिकम्-'पशुः' 'अपत्यम्' 'देवता' इत्यादिवत् प्रसिद्धम्, अत आह-ओष्ठात् प्रभृतीति -ग्रीवायामुत्रतप्रदेशः काकलकसंज्ञकः कण्ठमणिः। यद्यप्याऽऽस्ये भवम् “दिगादिदेहांशाद०" (६.३.१२४) इति ये कृते "अवर्णेवर्णस्य" (७.४.६८) इत्यकारलोपे "व्यञ्जनात् पञ्चमान्तस्था०" (१.३.४७) इति यलोपे ताल्वादिकमपि लौकिकमास्यमस्ति, तथापि योगवशात् तत्राऽऽस्यशब्दो वर्त्तते इति झटिति तत्प्रतीतेरभावान्न तत्प्रसिद्धमिति सत्यपि निमित्ते रूढिवशान्मख एव वर्त्तते, न ताल्वादिषु, अत एव स्थानग्रहणम्, अन्यथा तद्वैयर्थ्यप्रसङ्गः। स चतुति-ननु च स्पृष्टादेर्भावः स्पृष्टतादिः (स्पृष्टस्य भावः