________________
परिशिष्ट-२
3७७ अन्यो घोषवान् ।१।१।१४।। बृन्यास-अन्य इत्यादि-अत्र तु जातिः। अघोषापेक्षया चात्रान्यत्वम्, तेन येषामतिशयशाली घोषस्तेऽन्यत्वजात्या समध्यासिता घोषवन्तः। घोषणं घुषेत्रि घोषः, न विद्यते घोषो ध्वनिर्येषामिति तेऽघोषाः। अन्वर्थता च 'तुल्यस्थानास्य०' (१.१. १७) इत्यत्रोपदेशे दर्शयिष्यते ।।१४।।
ल.न्यास- अन्य इत्यादि-(घोषवानिति) घोषो ध्वनिविद्यते यस्य स तथा। अन्वर्थता च "तुल्यस्थानास्य." (१.१.१७) इत्यत्र दर्शयिष्यते। घोषवानिति जातिनिर्देशः, अघोषाऽपेक्षया चान्यत्वम्, तेन येषामतिशायी घोषस्तेऽन्यत्वजात्यध्यासिता घोषवन्त इत्यर्थः ।।१४।।
यरलवा अन्तस्थाः ।११।१५।। बृन्यास-यरलवेत्यादि-स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीति “स्थापास्नात्रः कः" (५.१.१४२) इति के “इडेत्पुसि०" (४.३.९४) इत्याकारलोपे अन्तस्थाः। *लिङ्गमशिष्यं लोकाश्रयत्वाद् इति वर्णविशेषणमप्यन्तस्था स्त्रियां वर्तते? यथाकलत्रं स्त्रियामपि नपुंसकम्। सानु(नासिक-निरनु)नासिकभेदेन च रेफरहितास्ते वैविध्यं भजन्ते, तद्भेदपरिग्रहाय बहुवचननिर्देशः, अत आह-बहुवचनमिति ।।१५।।
ल.न्यास-यरलवेत्यादि “लिङ्गमशिष्यं लोकाश्रयत्वाद्" इति वर्णविशेषणमपि अन्तस्थाशब्दः स्त्रीलिङ्गो बाहुलकात् शब्दशक्तिस्वाभाव्याद् बहुत्ववृत्तिश्च प्राय इति। य र ल व इतीते-अर्थवत्त्वाभावे नामत्वाभावान्न स्यादिः ।।१५।।
अंअ: क)(पशषसाः शिट् ।११।१६।। बृन्यास-अं अ इत्यादि-क-)(पयोर्देश-काल-लिपिभेदेऽपि रूपाभेदाद् दृष्टान्तमाह-वज्राकृतिरिति। वज्रस्येवाऽऽकृतिराकारो यस्य स तथा, गजकुम्भयोरिवाऽऽकृतिर्यस्य सोऽपि तथा। ककार-पकारौ चानयोः परदेशस्थावुचार्येते, सर्वत्र परसम्बद्धावेवैतौ भवतः, न स्वतन्त्री, नापि पूर्वसम्बद्धौ, अन्यवर्णवबिन्दुवचेति ज्ञापनार्थम्। रेफादेशत्वात् कख-पफसनिधावेव तयोः प्रयोगादल्पविषयत्वम्, अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय 'शिट्' इत्येकवचनेन निर्देशः कृतः। कथमनयोर्वर्णत्वं वर्णरामाम्नाये पाठाभावात्? उच्यते-रेफस्य वर्णत्वात् तयोश्च तदादेशत्वाद् वर्ण(त्व)सिद्धिः। न च वर्णाऽऽदेशत्वेन लोपस्यापि वर्णत्वमाशङ्कनीयम्, तस्याभावरूपत्वाद्, न चाभावो भावस्याश्रयो भवितुमर्हति अतिप्रसङ्गाद्, अयमेवार्थो बहुवचनेन सूच्यते, अनुवादकत्वात् तस्य साधकत्ताभावाद्, इत्यत आह-बहुवचनमिति। अयं भावः-यद्येतावभावरूपो स्याताम्, कथं भावरूपाया एकत्वादिसंख्याया आश्रयो भवेताम्? भावधर्मत्वादाश्रयाश्रयिभावस्य, एकत्वादिषु वर्तमानानाम्नस्तानि (वचनानि) विहितानि, अतो बहुवचनं कुर्वन् ज्ञापयति-वर्णत्वमनयोरिति। ननु यदि सूचकमेव बहुवचनं न तु विधायकं तर्हि कथमुक्तं बहुवचनं प्ल तपरिग्रहार्थमिति? उच्यते-हस्व एव वर्द्धमानः प्लुतो भवति, साक्षात् पाठश्च वर्णसमानाये न विहितोऽल्पविषयत्वज्ञापनाय; दीर्घस्य तु प्रचुरविषयत्वात् साक्षात् पाठः, सिद्धचक्रस्याऽऽदौ साक्षात् पठितानामेवोपयोगात्, तथा 'षोडशदेव्योपगतम्' इत्यादावपि तत्पाठ एव षोडशत्वमुपपद्यते। अथवा दुरादामन्त्र्यादौ प्लुतस्य विधानात्, तत्रापि स्वरस्थानित्वेन वर्णत्वसिद्धिरिति युक्तमुच्यते स्वल्पोपयोगादुपलक्षणत्वेन तेषां परिग्रह इति। ननु अ- क-)(पानां व्यञ्जनसंज्ञाऽपि पूर्वेषामस्ति, तत् कथं तैः सह न विरोधः? उच्यतेव्यञ्जनसंज्ञाऽनन्तरमेषां संज्ञाविधानाद् व्यञ्जनसंज्ञाऽपि। यदि वा “कादिर्व्यञ्जनम्" (१.१.१०) इत्यत्राऽऽवृत्त्या कस्याऽऽदियोऽनुस्वारो विसृष्टो वा सोऽपि व्यञ्जनमित्यविरोध इति ।।१६।।