________________
3७६
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન पञ्चको वर्ग: ।।१।१२।। बृन्यास-पञ्चक इत्यादि-सजातीयसमुदायो वर्गः, स चावर्ग-कवर्गादिभेदेनाष्टसंख्यत्वेन वर्णसमाम्नाये केवलिकादिशास्त्रे प्रसिद्धः, तत्र च यः पञ्चसंख्यत्वेन व्यवस्थितः, सोऽत्र वर्गसंज्ञत्वेन संज्ञायते, अत आह-कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाण इति। तेषां च पञ्चसंख्यात्वाद् 'यो यः' इति वीप्सा। पञ्चक:-पञ्चेति संख्या मानमस्य “संख्याडतेश्चाशत्तिष्टेः कः" (६.४.१३०) इति के पञ्चकः। “वृग्टवरणे" वृणोति आत्मीयमेकत्वेन व्यवस्थापयति, “गम्यमिरम्यजिगद्यदि०" (उणा० ९२) इति गे वः ।।१२।।
ल.न्यास-पञ्चक इत्यादि-सजातीयसमुदायो वर्गः। स चावर्ग-कवर्गादिभेदेनाष्टधा वर्णसमानाये केवलिकादिशास्त्रेषु प्रसिद्धः, तत्र च यः पञ्चसंख्यात्वेन व्यवस्थितस्तस्येह वर्गसंज्ञेत्यत आह-कादिष्विति। यो य इति-संज्ञिनां बहुत्वादगृहीतवीप्सोऽपि पञ्चशब्दो वीप्सां गमयतीति। वृणोत्यात्मीयमेकत्वेन व्यवस्थापयति “गम्यमि०" (उणा० ९२) इति गे वर्गः, जात्यपेक्षमेकवचनम् ।।१२।।
आद्यद्वितीयशषसा अघोषाः ।११।१३।। बृन्यास-आद्येत्यादि-आदौ भव: “दिगादिदेहांशाद् यः” (६.३.१२४) इति ये आद्यः, उम्भति पूरयति वृद्धि नयति द्वित्वसंख्याबुद्धिमिति “उभेत्रौ च" (उणा० ६१५) इति इकारे द्विः, तयोः पूरणे “देस्तीयः” (७.१.१६५) इति तीये द्वितीयः, ततो द्वन्द्वगर्भो द्वन्द्वः; आद्याश्च द्वितीयाश्चाद्यद्वितीयाः, शश्च षश्च सश्च शषसाः (आद्य-द्वितीय-श-ष-सा:)। बहुवचनं हि आद्यद्वितीयबहुत्व-प्रतिपादनार्थम्, तच्च यदि सर्वेषां वर्गाणां आद्या द्वितीयाश्च भवन्ति, तत एव सफलं भवति, अन्यथा त्वसमर्थत्वात् समासाभावः, वृत्ति-वाक्ययोरेकार्थप्रतिपत्तिः सामर्थ्यम्, वाक्ये च बहुत्वं प्रतीयते, न तु वृत्तौ, बहुवचनात् तु दृतावपि तदर्थप्रतिपत्तेरसमर्थत्वाभावः। न च 'कारकयोर्मध्यम्' (कारकमध्यम्) इत्यादावसामर्थ्यात् समासाभाव इति, द्वित्वनियामकस्य मध्यशब्दस्य सद्भावात्, ‘मत्तबहुमातङ्गवनम्' इतिवद् बहुशब्दात् बहुत्वप्रतिपादकात्। तथापि समासाभावः, आद्य-द्वितीयशब्दयोर्यदपेक्षमादित्वं द्वितीयत्वं च तदपेक्षितत्वादित्यपि न वाच्यम्, गुरुपुत्रादिवन्नित्यसापेक्षत्वाद्, अपेक्षायाश्च शब्दार्थत्वाद्, यदाह
"सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते।
स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते" ।।१६।। इति, प्रत्यासत्तेश्च वगैरेव सा पूर्यते, अत आह-वर्गाणामाद्यद्वितीया वर्णा इति। ननु लाघवार्थं समाहार एव युक्तः यतः *मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः * इति। उच्यते-अर्थगौरवाय बहुवचननिर्देशः, अत आह-बहुवचनमिति, अन्यथा कवर्गस्यैव प्रथम-द्वितीयाविति सन्दिह्येत। ननु वर्गमात्रप्रस्तुतत्वात् प्रथमादिविशेषस्यानुपादानात् “शिट्याद्यस्य द्वितीयो वा" (१.३.५९) इतिवज्जातेः परिग्रहाल सर्ववर्गाणामाद्य-द्वितीयसिद्धेस्तदर्थबहुवचनस्य वैयर्थ्यमेव। नैवम्-"व्यक्तिरपि पदार्थोऽस्ति" इति ज्ञापनार्थम्, तस्यां च ककार-खकारयोथकार-छकारयोर्वा परिग्रहः स्यादिति, बहुवचनाञ्च सर्वासामाद्य-द्वितीयव्यक्तीनां स्वीकार इति, एवं सर्वत्र वचनफलमुन्नेयम् ।।१३।।
ल.न्यास- आद्येत्यादि-(अघोषा इति-) अविद्यमानो घोषो येषाम्, यथा-अनुदरा कन्येति, बहुव्रीहिणा गतत्वान्न मतुः। ननु लाघवार्थं समाहार एव युक्तः, यतः *मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः* इत्याह-बहुवचनमिति, अन्यथा श-ष-ससाहचर्यात् कखयोः केवलयोरेव ग्रहः स्यात्। अव्यभिचारिणा व्यभिचारी यत्र नियम्यते तत् साहचर्यम् ।।१३।।