________________
परिशिष्ट-२
3७५ ल.न्यास-अं अः इत्यादि-विसृज्यते विरम्यते घजि विसर्गः, कर्मप्रत्ययोपलक्षणं चेदम्, तेन विसृष्टो विसर्जनीय इत्यपि संज्ञाद्वयं द्रष्टव्यम् ।।९।।
कादिळञ्जनम् ।१।१।१०।। बृन्यास-कादिरित्यादि-आदीयते गृह्यतेऽर्थोऽस्मादिति "उपसर्गादः किः” (५.३.८७) इति किप्रत्यये आदिः। स च सामीप्य-व्यवस्था-प्रकाराऽवयवादिवृत्तिः । यथा-'ग्रामादौ घोषः' इति सामीप्ये। 'ब्राह्मणादयो वर्णाः' इति व्यवस्थायाम्। ‘आढ्या देवदत्तादयः' देवदत्तसदृशा इति प्रकारे। 'स्तम्भादयो गृहाः' तदवयवा इत्यवयवे। तत्र सामीप्यार्थवृत्तिग्रहणात् ककारस्य व्यञ्जनसंज्ञाऽभावः, उपलक्षणस्य कार्येऽनुपयोगाद्, यथा 'चित्रगुरानीयताम्' इत्युक्ते चित्रगवोपलक्षितः पुरुष एवाऽऽनीयते, न तु चित्रो गौरिति। व्यवस्थार्थोऽपि न घटते, वर्णसमाम्नायस्य व्यवस्थितत्वाद् व्यभिचाराभावः, *संभवे व्यभिचारे च विशेषणमर्थव* इति हि न्यायः। कादीनां परस्परमत्यन्तं वैसदृश्यात् प्रकारार्थोऽपि न समीचीनतामञ्चति। अवयवार्थवृत्तिस्तु सङ्गच्छते, ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एवेह तद्गुणसंविज्ञानो बहुव्रीहिः समुदायस्यावयवे समवेतत्वाद्, न्यग्भूतावयवत्वेन च समुदायप्राधान्यादेकवचनम्। संज्ञिसामानाधिकरण्येऽपि ‘स्मृतयः प्रमाणम्' इतिवदाविष्टलिङ्गत्वाद् व्यञ्जनमिति नपुंसकत्वम्। अवयवस्य वाऽऽसन्नत्वात् सामीप्यादीनां च व्यवहितत्वात् “सन्निहितपरित्यागे व्यवहितं प्रति कारणं वाच्यम्" इति न्यायादवयवार्थसम्भवेऽन्येषामग्रहणमिति। व्यज्यते प्रकाशवान् क्रियतेऽर्थोऽनेनेति “करणाधारे" (५.३.१२९) इत्यनटि व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा-सूपादीन्योदनस्येति व्यञ्जनसादृश्यादन्वर्थं चेदं नामेति ।।१०।।
ल.न्यास-कादिरित्यादि-आदीयते गृह्यतेऽस्मादर्थ इत्यादिः । स च सामीप्य-व्यवस्था-प्रकाराऽवयवादिवृत्तिः। यथा-ग्रामादौ घोष इति सामीप्ये, ब्राह्मणादयो वर्णा इति व्यवस्थायाम, आढ्या देवदत्तादय इति प्रकारे, देवदत्तसदृशा इत्यर्थः, स्तम्भादयो गृहा इति अवयवे, स्तम्भावयवा इत्यर्थः । तत्र सामीप्यार्थवृत्तिग्रहणे ककारस्य व्यञ्जनसंज्ञा न स्यात्, उपलक्षणस्य कार्येऽनुपयोगात्, यथा-चित्रगुरानीयतामित्युक्ते चित्रगवोपलक्षितः पुमानेवाऽऽनीयते न तु चित्रा गौरिति। व्यवस्थार्थोऽपि न घटते, वर्णसमानायस्य व्यवस्थितत्वेन व्यभिचाराभावात्, *संभवे व्यभिचारे च विशेषणमर्थव* इति हि न्यायः। कादीनां परस्परमत्यन्तवैसदृश्यात् प्रकारार्थोऽपि न समीचीनतामञ्चति। अवयवार्थवृत्तिस्तु संगच्छते। ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एवेह तद्गुणसंविज्ञानो बहुव्रीहिः समुदायस्यावयवेषु समवेतत्वात्, न्याभूतावयवत्वेन च समुदायप्राधान्यादेकवचनम्। संज्ञिसामानाधिकरण्येऽपि स्मृतयः प्रमाणम्' इतिवदाविष्टलिङ्गत्वाद् व्यञ्जनमिाते नपुंसकत्वम्। व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा-सूपादीन्योदनस्येति। कस्य आदि: कादिरिति व्याख्याने व्यवस्थावाच्यप्यादिशब्दः, तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्वारविसर्गयोस्तु भवति। ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्तेत्यत्रानुस्वाररूपव्यञ्जनात् परस्य सस्य "धुटो धुटि स्वे वा" (१.३.४८) इत्यनेन लुक् सिद्धः। विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुःखयतेः क्विपि, णिलुकि, सेश्च लुकि “पदस्य" (२.१.८९) इति विसर्गरूपसंयोगान्तस्थस्य खस्य लुक् सिद्धः; विसर्गस्य च कस्यादिरिति व्युत्पत्त्या (अपञ्चमान्तस्थ:० १.१.११) इति धुट्त्वे च "धुटस्तृतीयः” (२.१.७६) इति स्थान्यासन्ने गत्वे सति सुदुगिति सिद्धम् ।।१०।।
__अपञ्चमान्तस्थो धुट् ।१।१।११।। बृन्न्यास-अपञ्चमेत्यादि-“पचुण विस्तारे" तस्य “उदितः स्वरानोऽन्तः" (४.४.९८) इति ने "उक्षितक्ष्यक्षीशिः०" (उणा० ९००) अनि पञ्चन्, तेषां पूरणा: “नो मट" (७.१.१५९) इति मटि पञ्चमाः, न विद्यन्ते पञ्चमाश्च अन्तस्थाश्च यत्र वर्णसमुदाये सोऽपञ्चमान्तस्थ: कादिः, द्वन्द्वगर्भो बहुव्रीहिः ।।११।।