________________
3७४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન अतः समानं मानं परिच्छेदो येषाम् “समानस्य धर्मादिषु" (३.२.१४९) इति सभावे समानाः। लकारस्य समानसंज्ञायाम, कल्पनं क्लप "क्रुधादित्वात्" (क्रुत्सम्पदा० ५.३.११४) क्विप्, कलायाः क्लृप् (कलाक्लृप्) तामकाषीद्, णिचि अन्त्यस्वरादिलोपे "उपान्त्यस्यासमानलोपि०" (४.२.३५) इति ह्रस्वत्वाभावः, समानलोपाद्, “असमानलोपे०" (४.१.६३) इति सन्वद्भावाभावाद् 'अचकलाकद्' इति भावः। तथा क्लृ लकार: क्लृकार इति समानदीर्घत्वं च ।।७।।
ल.न्यास-लृदन्ता इत्यादि-उदात्ताऽनुदात्त-स्वरित-सानुनासिक-निरनुनासिकभेदादष्टादशधा भिद्यन्तेऽवर्णादय इति। समानं तुल्यं मानं परिमाणं परिच्छेदो वा येषां ते समानाः, परस्परविलक्षणाकारं बिभ्राणा अपीति। तथा लुकारस्य समानसंज्ञायाम्, कल्पनं क्लृप् “क्रुत्संपदादिभ्यः क्विप्" (५.३.११४) कलायाः क्लृप्, तामकार्षीत्, णिचि अन्त्यस्वरादिलोपे समानलोपात् “उपान्त्यस्यासमानलोपि०" (४.२.३५) इति हस्वत्वाभावे “असमानलोपे०" (४.१.६३) इति सन्वद्भावाभावे च 'अचकलाकद्' इति भवति, क्लृकार इति समानदीर्घत्वं च फलम्।।७।।
एऐओऔ संध्यक्षरम् ।१।१८।। बृन्यास--ए-ऐ-ओ-औ इत्यादि-ए-ऐ-ओ-औ इत्यत्र जातिनिर्देशस्य विवक्षितत्वाद् व्यक्तेरनाश्रितत्वाद् वर्णस्वरूपाभावाद् “वर्णाव्ययात् स्वरूपे कारः" (७.२.१५६) इति कारप्रत्ययो न भवति, एवमन्यत्रापि। अत्र समाहारो द्वन्द्वः, “क्लीबे" (२.४. ९७) इति हस्वत्वाभावोऽपि वर्णस्वरूपनिर्देशाद. अन्यथा उकारस्यापि संज्ञाप्रसङ्गः। प्रत्येकं वा सम्बन्धः. चादिपाठाच विभक्तेर श्रवणमिति। न क्षरति, न क्षीयते वाक्षरम्, अर्थम् अश्नुते व्याप्नोतीति “मी-ज्यजि-मा-मद्यशौ-वसि-किभ्यः सरः" (उणा० ४३९) इति सरे (वा) अक्षरम्, पदं वाक्यं वर्णं च। अत्रं तु वर्णार्थ एव गृह्यते, सन्धावक्षरं सन्ध्यक्षरम्, इत्यत एवैषां पूर्वी भागोऽकारः, एकारैकारयोः परो भाग इकार (इकारः, ओकारौकारयोः परो भागः) उकारः, य(ए)कत्वेनोपादानाद्, अमुमेवार्थ सम्प्रधारयता स्वरूपेण निर्देशः कृतः, अन्यथा लाघवार्थम् ‘एदादीनि' इति विदध्यादिति। प्रक्रमादन्वर्थसंज्ञाविधानाद् वा व्यञ्जनानां संज्ञाप्रसङ्गोऽपि नोद्भावनीयः ।।८।।
ल.न्यास-ए-ऐ-ओ-औ इत्यादि-संधी सति अक्षरं संध्यक्षरम्, तथाहि-अवर्णस्येवणेन सह संधावेकारः, एकारैकाराभ्यामैकारः, अवर्णस्योवर्णनौकारः, ओकारौकाराभ्यामौकारः ।।८।।
__ अं अः अनुस्वारविसर्गो ।११।९।। बृन्यास-अं अः इत्यादि-ननु सत्यां विसर्गसंज्ञायामादेशेन भाव्यम्, आदेशस्य च संज्ञा, इतीतरेतराश्रयत्वात् संज्ञा न सिद्धयति। नैष दोषः, द्रव्यादेशानित्या एव शब्दाः 'कः करोति' इत्यादौ व्यवस्थिता एवाऽन्वाख्यायन्ते। अनुपूर्वात् स्वरतेः अनुस्वर्यते सलीनमनुशब्द्यत इति कर्मणि घत्रि अनुस्वारः। विसृज्यते विरम्यते घत्रि विसर्गः, कर्मप्रत्ययोपलक्षणम्, तेन विसृष्टो विसर्जनीय इत्यपि। येन विना यदुञ्चारयितुं न शक्यते तत् तस्योञ्चारणम्, न शक्यते च बिन्दु-बिन्दुद्वयरूपौ वर्णावकारमन्तरेणोच्चारयितुमित्यसावुञ्चारणाय सम्पद्यते, अत आह-अकारावुशारणार्थाविति। अकारस्यैवोच्चारणार्थत्वं दृष्टम्, यथा-धातुषु, ये तु तत्रेकारादयो वर्णास्तेषाम् “इडितः कर्त्तरि" (३.३.२२) इत्यादौ प्रयोजनवत्त्वमुपलब्धमितीहापि तदुपादाने शङ्का स्यादित्यत एव ककारादिष्वपि स एव कृतः। परदेशस्था एव कादिष्वकारादयो वर्णा उच्चारणार्था दृष्टाः, अत्र तु पूर्वमुञ्चारयन्नेवं ज्ञापयति-पूर्वसंबद्धावेतो न परसंबद्धौ जिह्वामूलीयोपध्मानीयवत् ।।९।।