________________
परिशिष्ट-२
393 भूयसी मात्रेवर्णोवर्णयोः, अल्पीयसी मात्राऽवर्णस्येति। तथाहि-ऐकार: कण्ठ्य-तालव्यः, औकार: कण्ठ्यौष्ठ्यः, न च तथाविधो हस्वोऽस्तीत्यवयवासनेन भवितव्यम्, भूयसाऽवयवेन व्यपदेशो भवति, तदात्मक इव हि समुदायो लक्ष्यते, इतीदुतावेव भवतः, (अर्धमात्राऽवर्णस्याध्यर्ध-मात्रेवर्णोवर्णयोः, भूयसा च व्यपदेशो मल्यामादिवदितीकारोकारावेव भविष्यतः) लोकेऽपि हि भूयसा व्यपदेशो दृश्यते, तद्यथा-"ब्राह्मणग्राम आनीयतामित्युच्यते, तत्र चावरत: पञ्चकारुकी भवतीति" इममेव न्यायं चेतसि सम्प्रधार्य शिक्षायामेकारैकारौ तालव्यौ, ओकारौकारौ च कण्ठ्याविति वक्ष्यामः। एतन्मूलश्चायं वा न्यायो ध्येय: *सन्ध्यक्षराणामिदुतौ ह्रस्वादेशा:* इति।।५।।
ल.न्यास-एक-द्वीत्यादि। एकमात्र इति-स्वरस्यात्यन्तापकृष्टो निमेषोन्मेषक्रियापरिच्छिन्न उञ्चारणकालो मात्रा। अर्धमात्रिकयोरेति -मात्राया अर्धमर्धमात्रा, साऽस्त्यनयो: “व्रीह्यादिभ्यस्तो" (७.२.५) इति इकः । वर्णसमुदायस्वोत-औदन्ता इत्यनुवृत्त्या वर्णा इति लाभात् 'तितउ' इत्यत्र 'अउ' इत्येवंरूपवर्णसमुदायस्य दीर्घत्वनिषेधः । संध्याक्षराणां त्विति-अन्यैः कालापकाद्यैः संध्यक्षराणां दीर्घसंज्ञाऽपि न कृता, ततोऽत्र संज्ञाद्वयेऽपि संदेहः, यद्वा, अ आ इत्यादौ क्रमेण हस्व-दीर्घसंज्ञा दृष्टा, ए ऐ इत्यादावपि किं तथैवेत्याशङ्कायामिदमुक्तं संध्यक्षराणां त्वित्यादि ।।५।।
अनवर्णा नामी ।।१।६।। बृन्यास-अनवणेत्यादि-अविद्यमानोऽवर्णो येषु तेऽनवर्णाः स्वराः, ते नामिनो भवन्ति। नमनं नामः, सोऽस्यास्तीति नामी। तथा चैषां हस्व-दीर्घादिभेदेन नत एव ध्वनिनिःसरति, नोर्ध्वं स्पृशति। ननु संज्ञिसामानाधिकरण्याद् “औदन्ताः स्वराः" (१.१.४) इतिवनामिन इति बहुवचननिर्देशन भाव्यम्, उच्यते-वचनभेदेन संज्ञां कुर्वनेवं ज्ञापयति-यत्र नामिनः कार्य विधीयते तत्र कार्याद् यदि कार्थी स्वरो न्यूनो भवति, तदैव नामिसंज्ञाप्रवृत्ति न्यथा; तेन ग्लायति, म्लायति' इत्यादौ न गुणः। अत एव तत्राऽऽह -'ऐकारोपदेशबलान्नामित्वाभावाद् गुणाभावः' इति। न च सन्ध्यक्षराणां द्विमात्रत्वात् प्रयत्नाधिक्या नावादाधिक्याभाव इति वाच्यम्, यतो विश्लिष्टावर्णत्वेनाधिकयोरैकारौकारयोः कथं प्रश्लिष्टावर्णत्वेन (न)न्यून एकार ओकारश्च भवति? नयतीत्यादौ तु द्विमात्रत्वेन समत्वेऽपि प्रश्लिष्टावर्णत्वेनाधिक्यं गुणस्येति संज्ञाप्रवृत्तिः। न चैकारोपदेशबलाद् बाध इति वाच्यम्, आयादीनामपि बाधप्रसङ्गात्। यद्वा अविद्यमानवणं येष्वित्यवर्णवर्जनात् सन्ध्यक्षरेषु त्ववर्णभागस्यापि सद्भावानामिसंज्ञाऽभावः, अन्यथा “इदादिर्नामी" इति विदध्यात्। षत्वविधौ तु "नाम्यन्तस्था०" (२.३.१५) इत्यत्राऽऽवृत्त्या नामिनोऽन्ते तिष्ठन्तीति नाम्यन्तस्थाः सन्ध्यक्षराण्यप्युच्यन्त इति सन्ध्यक्षरपरिग्रहः। “न नाम्येकस्वरात् खित्युत्तरपदे मः" (३.२.९) इत्यत्रापि आवृत्त्या नामी एकदेशेन स्वरो यस्य तत् सन्ध्यक्षरमेवेति तत्रापि तत्परिग्रहः । “व्यञ्जनादेर्नाम्युपान्त्याद् वा" (२.३.८७) इत्यत्रापि प्रवेपणीयमित्यादौ सन्ध्यक्षराणां पूर्वभागस्यावर्णरूपत्वादुत्तरभागस्य च नामिरूपत्वानाम्युपान्त्यत्वमस्त्येव इत्यदोषः। एवमन्यत्राप्यूहनीयमिति सर्वं समञ्जसमिति ।।६।।
ल.न्यास- अनवणेत्यादि-अविद्यमानोऽवर्णो येषु तेऽनवर्णाः । ननु संज्ञिरामानाधिकरणत्वेन संज्ञानिर्देशे सति “औदन्ता: स्वराः" (१.१.४) इतिवन्नामिन इति बहुवचनेन निर्देशो युज्यते तत् किं नामीत्येकवचननिर्देशः? सत्यम्, वचनभेदेन संज्ञां कुर्वनेवं बोधयति-'यत्र नामिनः कार्य क्रियते तत्र कार्याद् यदि कार्यो स्वरो न्यूनो भवति तत्रै(दै)व नामिसंज्ञाप्रवृत्तिर्नान्यथा' तेन 'ग्लायति, म्लायति' इत्यादौ न गुणः, अत एव तत्राऽऽह-'ऐकारोपदेशबलानामित्वाभावाद् गुणाभावः' इति। अत्रोत्तरयोश्च बहुवचनं प्लुतसंग्रहार्थम्। विशेषण-विशेष्यभावस्तु वचनभेदेऽपि सामान्य-विशेषभावेन यथा-पञ्चादौ घुट, वेदाः प्रमाणम्, इति ।।६।।
लृदन्ताः समानाः ।१।१७।। बृ०न्यास-लृदन्ता इत्यादि-उदात्ताऽनुदात्त-समाहार-(स्वरित)-सानुनासिक-निरनुनासिकभेदादष्टादशधा भिद्यन्तेऽवर्णादयः,