Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 395
________________ 3७२ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન विषये *पुनः प्रसङ्गविज्ञानम्* च भवति, नित्य-विकल्पयोर्विरोधात् पूर्वेण परस्य बाधप्रसङ्गादिति, (यत्र हि पूर्वो विधिः परं न बाधते, तत्र पुनः प्रसङ्गविज्ञानं क्वचिदाश्रीयते) अत आह-वर्णानामित्यादि। अयमभिप्रायः-द्वयश्च पदार्थो जातिय॑क्तिश्च । तत्र वर्णग्रहणे जातिग्रहणाद् । ('प्रतक्ष्य' इति) व्यञ्जनसंयोगस्य 'तितउ' इति स्वरसमुदायस्य(च) प्राप्नोति, औदन्तानुवृत्त्या समुदायनिवृत्तिविधीयते; व्यक्तिरपि पदार्थोऽस्तीत्युक्तम्, तत्र व्यक्तिपदार्थेऽप्यङ्गीक्रियमाणे समुदायस्य न भविष्यति, नहि समुदायो व्यक्तिः, अत एवोक्तम्-वर्णानां च ह्रस्वादिसंज्ञाविधानात् ; एक-द्वि-त्रिमात्रा इति विशेषणाञ्छेह व्यक्तिपक्ष आश्रीयते, नहि जातेः परिमाणम्, न स्वरूपेण, एकैकव्यक्तिव्यङ्गया च जातिर्न समुदायव्यङ्गया, (नहि जातेः स्वरूपेण परिमाणमस्ति; न च व्यक्तिद्वारकं जातेः परिमाणमाश्रीयते इति वक्तव्यम्, यत एकैकव्यक्तिव्यङ्गया हि जातिर्न समुदायव्यङ्गया;) न च मुख्ये सम्भवति गौणकल्पना ज्यायसीति भावः । तथा संहितापाठोऽप्यस्ति, यथा-“औदन्ताः स्वरा एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लुताः" इति । तत्राऽयमर्थः सम्पद्यते-हस्वादिसंज्ञया विधीयमाना औदन्ता वर्णाः स्वरस्य भवन्ति, 'स्वराः' इति षष्ठ्यर्थे प्रथमाविधानात्, “इन् ङीस्वरे०” (१.४.७९) इतिवत्, एवं च स्थानिनियमार्था परिभाषेयं सम्पद्यते। न चौदन्तानां विधायकमिदं लक्षणम्, तेषां लक्षणान्तरेण विधास्यमानत्वात् ; अनियमप्रसङ्गे चेयं नियमं करोति, तेन यत्र साक्षात् स्थानी न निर्दिष्ट: "दीर्घश्वियङ्यक्येषु च" (४.३.१०८) इत्येवमादौ तत्रोपतिष्ठते, तत्रानियमे प्रसक्ते नियममेषा करोति-स्वरस्यैव न व्यञ्जनस्येति, अतः स एवास्या विषयो वेदितव्यः, न तु यत्र साक्षात् स्थानी निद्दिश्यते "समानानां तेन दीर्घः” (१.२.१) इत्यादिषु, अत्र ह्यनियमस्य प्राप्तिरेव नास्ति, तदुपस्थाने च प्रदेशेषु “दीर्घश्वियङ्यक्येषु च" (४.३.१०८) इत्यादौ द्वे षष्ठ्यौ प्रादुर्भवतः, धातोरेका षष्ठी, स्वरस्येति च द्वितीया। तत्र विशेषेण-विशेष्यभावं प्रति कामचारात् स्वरस्य चान्तेऽपि सम्भवात् स्वरेण गृह्यमाणो धातुर्विशिष्यते-स्वरान्तस्य धातोरिति, तेन 'चीयते' इत्यादौ दीर्घा भवति, न तु 'पच्यते' इत्यादिषु। एवम् ‘क्लीबे' (२.४.९७) इत्यादिषु स्वरेणाऽऽक्षिप्तं नाम विशिष्यते-स्वरान्तस्य नाम्न इति, तेन 'अतिरि' 'अतिनु' इत्यादिष्वेव हस्वः । यदि तु नाम्ना स्वरो विशिष्येत-नाम्नो यः स्वर इति, तदा ‘सुवाग् ब्राह्मणकुलम्' इति मध्यव्यवस्थितस्यापि स्वरस्य ह्रस्वः स्यात्, स्वरेण तु नाग्नि विशिष्यमाणे नाम्न इति स्थानषष्ठी भवति नावयवषष्ठी, तेन “षष्ठ्या०" (७.४.१०६) अन्त्यस्य स्वरस्य हस्वो भवति। यत्र त्वन्ते स्वरस्यासम्भव: “क्रमः क्त्वि वा" (४.१.१०६) “अहन् पञ्चमस्य क्वि-क्ङिति" (४.१.१०७) "शम् सप्तकस्य श्ये" (४.२.१११) “नि दीर्घः” (१.४.८५) इत्यादिषु, तत्र स्वरं गृह्यमाणेन विशेषयिष्यामः-'एषामवयवस्य स्वरस्य दीर्घो भवति' इति मध्येऽपि भवति स्थानषष्ठ्यभावात् 'षष्ठ्याऽन्त्यस्य' (७.४.१०६) इत्यप्रवृत्तेरिति, अत एव तत्र व्यञ्जननिवृत्त्यर्थं स्वरग्रहणं न क्रियते। यद्येवं द्यौः', 'पन्थाः' 'सः' इत्यादिष्वस्या उपस्थानाद् व्यञ्जनस्यौत्वादि न प्राप्नोति, अत्रोच्यते -लिङ्गवती चेयं परिभाषा, यत्र हस्व-दीर्घ-प्लुतग्रहणं तत्रोपतिष्ठते, एवं च संज्ञया विधानेऽयं नियमः, न सर्वत्र । कथमयमों लभ्यत इति चेद्, उच्यते-औदन्तानां स्वयमेवोपात्तत्वाद् हस्वादिशब्दा नेह तदुपस्थापने व्याप्रियन्ते; ततश्च स्वरूपपदार्थकाः सन्तो विधीयमानानामौदन्तानां विशेषणभावमुपयन्ति। तत्रैवमभिसम्बन्धः क्रियते-स्वरस्य स्थाने औदन्ता भवन्ति, ह्रस्व-दीर्घ-प्लता इत्येवंसंज्ञा विधीयमानाः, “दिव औः सौ” (२.१.११७) इत्येवमादिभिस्त्वौकारादयः स्वरूपेण विधीयन्ते न हस्वादिसंज्ञया इति लिङ्गाभावादुपस्थानाभावाद् व्यञ्जनस्य स्थाने भवन्ति; न स्वरस्येति सर्वं समञ्जसमिति। एतन्मूलश्चायं न्यायः *स्वरस्य हस्व-दीर्घ-प्लुता* इति सुखार्थमाचार्यः पठ्यत इति। ननु तथापि सन्ध्यक्षराणां ह्रस्वशासने एकारौकारयोः प्रश्लिष्टावर्णत्वात् (पांसूदकवदत्यन्तमीलितावर्णत्वादित्यर्थः) प्रश्लिष्य वर्णी अर्ध एकारोऽर्ध ओकारश्च प्राप्नोति आसन्नतरत्वादितिः ऐकारौकारयोश्च विश्लिष्टावर्णत्वान्मात्राऽवर्णस्य मात्रा इव!वर्णयोः, तयोश्च ह्रस्वशासने कदाचिदवर्णं स्यात्, कदाचिदिवर्णोवणे, इकारोकारावेव चेष्येते, अतिहि, अतिगु, अतिरि, अतिनु' इति, तञ्च यत्रमन्तरेण न सिद्ध्यति। उच्यते-एकारस्य तालव्यत्वात् तालव्य इकार आसनत्वाद् भविष्यति, ओकारस्य त्वोष्ठ्यस्य ओष्ठ्य उकारो भविष्यति। ननु चोक्तमासनतरत्वादर्द्ध एकारोऽर्द्ध ओकारश्च प्राप्नोति, सत्यमुक्तम्, केवलं न तो स्तः, यौ स्तस्तावेव भविष्यतः, नैव लोकेऽन्यत्र चार्द्ध एकार अर्द्ध ओकारो वाऽस्ति, ऐकारौकारयोस्तुत्तरभूयस्त्वादवर्णं न भविष्यति,

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484