Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 387
________________ 3६४ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इत्यादीनि सूत्राणि प्रत्येकं ज्ञातव्यानि। एतेषां मध्ये इदमधिकारसूत्रमाशास्त्रपरिसमाप्तेः । स्यादित्यव्ययमिति-विभक्त्यन्ताभत्वेन स्वरादित्वाद वाऽनेकान्तं द्योतयति वाचकत्वेनेत्यनेकान्तद्योतकम्। अनेकान्तवाद इति-अमति गच्छति धर्मिणमिति "दम्यमि०" (उणा० २००.) इति तेऽन्तो धर्मः, न एकोऽनेकः, अनेकोऽन्तोऽस्यासावनेकान्तः, तस्य वदनं याथातथ्येन प्रतिपादनम्, तच्चाभ्युपगतस्यैव भवतीति। नित्यानित्यादीति -आदिशब्दात् सदसदात्मकत्व-सामान्यविशेषात्मकत्वा-ऽभिलाप्यानभिलाप्यत्वग्रहः । “ने(वे" (६.३.१७) इति त्यचि नित्यम्, उभयान्तापरिच्छिन्नसत्ताकं वस्तु, तद्विपरीतमनित्यम्। आदीयते गृह्यतेऽर्थोऽस्मादिति "उपसर्गाद् दः किः" (५.३.८७) इति को आदिः। धरन्ति धर्मिणो धर्मिरूपतामिति धर्मा वस्तुपर्यायाः, ते च सहभुवः सामान्यादयः, क्रमभुवश्च नवपुराणादयः पर्यायाः, धर्ममन्तरेण धर्मिणः स्वरूपनाशात्। शाम्यति विरुद्धधर्मयुगपत्परिणतिमुपयाति "शमेव च वा" (उणा० ४७०) इत्यले शबलम्। एत्यभेदं गच्छति "भीणशलि०" (उणा० २१) इति के एकम्। वसन्ति सामान्यविशेषरूपा धर्मा अस्मिन्निति “वसेर्णिद्वा" (उणा० ७७४) इति तुनि वस्तु। नित्यानित्यादिभिरनेकधर्मः शबलं यदेकं वस्तु तस्याऽभ्युपगमः प्रमाणाविरुद्धोऽङ्गीकारः, तत एव शब्दानां सिद्धिर्भवति नान्यथेत्यत आह-एकस्यैवेति । तथाहि-यस्यैव वर्णस्य हस्वत्वं विधीयते तस्यैव दीर्घत्वादि, तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य ह्रस्वादिविधेरसंभवः; एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य हस्वादिविधिरिति वर्णरूपसामान्याऽऽत्मना नित्यो हस्वादिधर्मात्मना त्वनित्य इति। तथा द्रव्याणां स्वपराश्रयसमवेतक्रियानिवर्तकं सामर्थ्य कारकम्, तच्च कर्नाद्यनेकप्रकारमेकस्याप्युपलभ्यते; यथा-पीयमानं मधु मदयति, वृक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्यो बिध्यदनात्मज्ञस्तेभ्य एवात्मानं प्रयच्छंस्तैरेव बन्धमाप्नोतीत्यादि; तञ्च कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याऽवस्थान्तराभिव्यक्तरूपोपलम्भाभावाद् घटते? इति साध्य-साधनरूपकारकव्यवहारविलोपः । अनित्यत्वेऽपि न घटते, तथाहि-स्वातन्त्र्यं कर्तृत्वम्, तच्च "इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषगजं फलमिदं दशेयं मम। अयं सुहृदयं द्विषन् प्रकृतदेशकालाविमाविति प्रतिवितर्कयन् प्रयतते बुधो नेतरः" ।।७।। इत्येवमात्मकपरिदष्टसामर्थ्य कारकप्रयोक्तत्वलक्षणम, तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य यज्यते. किं पुनः कारकसंनिपातः? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः। तथा तमन्तरेण सामानाधिकरण्यम्, विशेषण-विशेष्यभावोऽपि नोपपद्यते; तथाहि-भिन्नप्रवृत्ति-निमित्तयोः शब्दयोरेकत्रार्थ वृत्तिः सामानाधिकरण्यम्, तयोश्चात्यन्तभेदे घट-पटयोरिव नैकत्र वृत्तिः, नाप्यत्यन्ताभेदे भेदनिबन्धनत्वात् तस्य, नहि भवति नीलं नीलमिति। किञ्च, नीलशब्दादेव तदर्थप्रतिपत्तौ उत्पलशब्दाऽऽनर्थक्यप्रसङ्गः । तथैकं वस्तु सदेवेति नियम्यमाने विशेषण-विशेष्याभावाभावः, विशेषणाद् विशेष्यं कथञ्चिदर्थान्तरभूतमवगन्तव्यम्, अस्तित्वं चेह विशेषणम्, तस्य विशेष्यं वस्तु, तदेव वा स्याद्, अन्यदेव वा? न तावत् तदेव, नहि तदेव तस्य विशेषणं भवितुमर्हति, असति च विशेष्ये विशेषणत्वमपि न स्यात्, विशेष्यं विशिष्यते येन तद् विशेषणमिति व्युत्पत्तेः, अथान्यत् तहि अन्यत्वाविशेषात् सर्वं सर्वस्य विशेषणं स्यात् ; समवायात् प्रतिनियतो विशेषणविशेष्यभाव इति चेद्, न-सोऽप्यविष्वग्भावलक्षण एवैष्टव्यः, रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः, अतो नासावत्यन्तं भेदेऽभेदे वा संभवतीति भेदाभेदलक्षणः स्याद्वादोऽकामेनाप्यभ्युपगन्तव्य इति। आदिग्रहणात् स्थान्यादेश-निमित्तनिमित्ति-प्रकृतिविकारभावादिग्रहः। किञ्च, शब्दानुशासनमिदम्, शब्दं प्रति च; विप्रतिपद्यन्ते-नित्य इत्येके, अनित्य इत्यपरे, नित्यानित्य इति चान्ये। तत्र नित्यत्वा-ऽनित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरहः स्यादित्याह-सर्वपार्षदत्वाछेति-स्वेन रूपेण व्यवस्थितं वस्तुतत्त्वं पृणाति पालयतीति "प्रः सद्" (उणा० ८९७) इति सदि पर्षद्, तत्र साधु “पर्षदो ण्यणौ" (७.१.१८) इति णे पार्षदं साधारणमित्यर्थः । अथवा पार्षदः परिचारक उच्यते, स च पर्षत्साधारण इत्यर्थः, पार्षदत्वेन च साधारणत्वं लक्ष्यते, तेन सर्वेषां पार्षदं सर्वसाधारणमित्यर्थः । दृश्यते तत्त्वमेकदेशेनैभिरिति दर्शनानि नयाः, समस्तदर्शनानां यः समुदायः तत्साधारणस्याद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः । अतिरमणीयमिात-णिगन्तात् "प्रवचनीयादयः" (५.१.८) इत्यनीयः । ____ एतदेव स्वोक्तेन द्रढयति-अन्योऽन्येत्यादि-साध्यधर्मवैशिष्ट्येन पच्यते व्यक्तीक्रियते हेत्वादिभिरिति “मा-वा-वदि०" (उणा० ५६४) इति से पक्षः-साध्यधर्मविशिष्टो धर्मी, शब्दोऽनित्य इत्यादिः, प्रतिकूलः पक्षः प्रतिपक्षः, अन्योऽन्यं पक्षस्य प्रतिपक्षास्तेषां भावः, एकस्मिन् धर्मिणि परस्परविरुद्धधर्मोपन्यास इत्यर्थः, ततः। यथेति दृष्टान्तोपन्यासे। परे भवच्छासनादन्ये। सातिशयो मत्सरोऽसहनताऽस्त्येषामतिशायने - - - - - - - - - - - - -- - - - - - - - - - - - - १. पादपात्। २. मूर्खः।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484