Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट २
૩૬૩
परोक्तेनापि द्रढयति-नया इत्यादि - नीयन्ते प्राप्यन्ते जीवादयोऽर्था एकदेशेन विशिष्टा एतैरिति नया निरवधारणा अभिप्रायविशेषाः, सावधारणस्य दुर्नयत्वात्, सकलार्थप्राप्तेश्च प्रमाणाधीनत्वात् । ते च नैगमादयः सप्त, ते स्यात्पदेन चिह्निताः सावधारणाश्च अभिप्रेतं फलं फलन्ति-लिहाद्यच् ("लिहादिभ्यः " ५.१.५० ) निष्पादयन्ति अभिप्रेतं फलं येभ्य इति बहुव्रीहिर्वा, यतस्ततो भवन्तमार्याः प्रणताः प्रणन्तुमारब्धा इति । 'हितैषिणः' इति विशेषणद्वारेण हेतु:, हितैषित्वादित्यर्थः । रसेन विद्धाः शुल्वादिधातव इवेति समन्वयः। (भवन्तम्- ) भाति दीप्यते केवलज्ञानश्रिया निरतिशयवीर्येण वेति "भातेर्डवतुः " ( उणा० ८८६) इति भवान् । दूरमन्तिकं वा आरात् सम्यग्ज्ञानाद्यात्मकस्य मोक्षमार्गस्य समीपं याताः प्राप्ताः, दूरं वा पापक्रियाभ्यो याता गता इति नैरुक्ते वर्णादेशे आर्या इति । (हितैषिणः-) आवरणविलयादमलज्ञानाविर्भूतिरूपा शुद्धिः, अन्तरायविनाशाच शक्तिः, तयोः प्रकर्षो हितम्, स्वेन रूपेणात्मनो धारणरूपः सुखादिना पोषरूपश्चान्वर्थोऽपि घटते, तमिच्छन्तीत्येवंशीलाः, आर्यत्वादेव च शीलार्थोऽपि व्यवतिष्ठते, मोक्षे भवे तेषां स्पृहाभावादिति ।
नन्वस्तु युक्तियुक्तः स्याद्वादस्तदधीना च शब्दसिद्धिः, तथाप्यनभिहिताभिधेयप्रयोजनत्वात् कथमेतत्प्रेक्षावत्प्रवृत्त्यङ्गम्? इत्याशङ्कायामाह-अथवेत्यादि - विविक्तानामसाधुत्वनिर्मुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानलक्षणा सिद्धिर्भवति, शब्दानुशासनस्य साधवः शब्दा अभिधेयाः, यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम् इति सम्यग्ज्ञानमनन्तरं प्रयोजनम्, तद्द्वारेण च निःश्रेयसं परमिति । यतः
"व्याकरणात् पदसिद्धिः पदसिद्धेरर्थनिर्णयो भवति ।
अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः ।। ९ ।। इति ।
तस्मात् सम्यग्ज्ञाननिःश्रेयसप्रयोजनं शब्दानुशासनमारभ्यते । सम्बन्धस्त्वभिधेय-प्रयोजनयोः साध्य-साधनभावलक्षणः, शब्दानुशासनाभिधेययोश्चाभिधानाभिधेयलक्षणः । स च तयोरेवान्तर्भूतत्वात् पृथग् नोपदर्शित इति । ननु यथा प्रयोजनस्याभिलाषजनकतया प्रवर्तकत्वादभिधानम्, तथाऽभिधेयस्यापि शक्यानुष्ठानादिप्रतिपादनार्थत्वात् तस्याप्यभिधानं कर्तव्यम्, न चात्र तदस्ति, तस्यानूद्यमानत्वात्। नैवम्-अनुवादादपि विधेरध्यवसानाद्
“अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ । (अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्” ।।१०।। ) काव्यप्रकाशस्य चतुर्थोल्लासे सूत्रम् - ३९
तद्वृत्तिः-लक्षणामूलगूढव्यङ्गयप्राधान्ये सत्येवाविवक्षितं वाच्यं यत्र स 'ध्वनौ' इत्यनुवादाद् ध्वनिरिति ज्ञेयः । तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणतम्, क्वचिदनुपपद्यमानतयाऽत्यन्तं तिरस्कृतम् । कारिकार्थस्तु-अविवक्षितम्-अनुपयुक्तम् अन्वयायोग्यं वा वाच्यं वाच्योऽर्थो यत्र तादृशो यो ध्वनिः तत्र, तस्मिन् ध्वनौ 'उत्तमे काव्ये' वाच्यं वाच्योऽर्थः अर्थान्तरे वाच्यलक्ष्यसाधारणेऽर्थे संक्रमितं परिणमितम्, अत्यन्तं तिरस्कृतं त्यक्तं वा भवेदिति ) इत्यत्र स ध्वनिरिति वदति, तेनाभिधेयप्रयोजनयोः परता तन्निष्ठतापीत्यर्थः सिद्धो भवतीति ।।२।।
ल. न्यास - सिद्धिरित्यादि - लोके प्रसिद्धसाधुत्वानां शब्दानामन्वाख्यानार्थमिदं शब्दानुशासनमारभ्यते । अन्वाख्यानं च शब्दानां प्रकृत्यादिविभागेन सामान्य-विशेषवता लक्षणेन व्युत्पादनम् । तच्च शब्दार्थसंबन्धमन्तरेण न संभवति । शब्दार्थसंबन्धसिद्धिश्च स्याद्वादाधीना इत्यत आह-सिद्धिः स्याद्वादात् । दशधा सूत्राणि - संज्ञा - १ परिभाषा - २ ऽधिकार- ३ विधि ४ प्रतिषेध- ५ नियम ६ विकल्प-७ समुचया-८ ऽतिदेशा-९ ऽनुवाद-१० रूपाणि । तत्र " औदन्ताः स्वराः " (१.१.४) इति १ । "प्रत्ययः प्रकृत्यादेः " (७.४.११५) इति २ । "घुटि" (१.४.६८) इति ३। “नाम्यन्तस्थाकवर्गात्० " (२.३.१५) इति ४। "न स्तं मत्वर्थे” (१.१.२३) इति ५ । "नाम सिदय्व्यञ्जने” (१.१.२१) इति ६ । "सौ नवेतौ” (१.२.३८) इति ७ । “शसोऽता०" (१.४.४९) इति ८ । “इदितो वा " (८.४.१) इति ९ । “तयोः समूहवञ्च बहुषु" (७.३.३) इति १० ।
Loading... Page Navigation 1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484