Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 389
________________ ૩૬૬ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન "अविकारोऽद्रवं (मूर्तं प्राणिस्थं स्वाङ्गमुच्यते। च्यतं च प्राणिनस्तत तन्निभं च प्रतिमादिष" ॥२३ ॥ इत्यादिलक्षणं स्वाङ्गम्। एकाद्यभिधानप्रत्ययहेतुः संख्या। सर्वतो मानं परिमाणम्। अपत्यं प्रसिद्धमेव। क्रिया-गुणद्रव्यादिभिः प्रयोक्तुर्युगपद् व्याप्तुमिच्छा वीप्सा। अदर्शनं लुक् । अष्टादशभेदभिन्नोऽकारादिसमुदायोऽ वर्णः। आदिशब्दादिवर्णादिपरिग्रहः। तथा संवृतस्याप्यकारस्य स्वसंज्ञाप्रसिद्ध्यर्थं विवृतत्वमपि इति वैयाकरणाः। “द्रव्याश्रयी गुणः, गुणाश्रयो द्रव्यम्, अनुवृत्तप्रत्ययहेतुः सामान्य जातिः, परापरादिप्रत्ययहेतुः कालः, अनुमानं लिङ्गम्, स्वाङ्यारम्भकमवयवरूपं स्वाङ्गम्, अणुमहदादिप्रत्ययहेतुः परिमाणम्" इति तार्किकाः। *परानित्यम् इति-तथाहि-वनानीत्यादौ “शसोऽता०" (१.४.४९) इति बाधित्वा परत्वाद् “नपुंसकस्य शिः" (१.४.५५) इत्येव भवति। तस्माञ्च (नित्यं) बलीयः, यथा-'स्योन' इत्यत्र परमपि गुणं बाधित्वा नित्यत्वादूट्। तथा नित्यादन्तरङ्गम्*, ज्ञाया ओदनो ज्ञौदनस्तमिच्छति क्यनि, ततः सनि, अकृतव्यूहत्वाद् ‘ज्ञा ओदन य स' इति स्थिते द्वित्वं च प्राप्नोत्यौत्वं च, नित्यत्वाद् द्वित्वे प्राप्ते तद् बाधित्वाऽन्तरङ्गत्वादौत्वं भवति-जुज्ञौदनीयिषतीति। तथा *अन्तरङ्गादनवकाशम्*, यथागर्गस्यापत्यानि तेषामिमे छात्राः “दोरीयः" (६.३.३२) इति ईयविषये "गर्गादेर्यञ्” (६.१.४२) इति 'गर्ग यज्' इति स्थितेऽन्तरङ्गत्वाद् 'बहुष्वस्त्रियाम्" (६.१.१२४) इति लुप्प्राप्तावनवकाशत्वाद् "न प्राग्जितीये स्वरे" (६.१.१३५) इत्यलुपि गार्गीया इति। तथा *परादन्तरङ्गम्* अपि, सिवे: “प्या-धा-पन्यनि०" (उणा० २५८) इति ने कृतेऽपवादत्वाद् वलोपं बाधित्वा गुणात् पूर्वं नित्यत्वादूटि च परत्वाद् गुणे प्राप्तेऽन्तरङ्गत्वात् तं बाधित्वा यादेशो भवति ‘स्योन' इति। एषां क्रियादीनां संज्ञानां न्यायानां च शास्त्रप्रवृत्तये लोकात् सिद्धिर्वेदितव्या, न च लोकमन्तरेण तज्ज्ञानोपायोऽस्ति, न च तज्ज्ञानं विना "क्रियार्थो धातुः” (३.३.३) "गुणादस्त्रियां नवा" (२.२.७७) "जातिकालसुखादेर्नवा" (३.१.१५२) “स्वाङ्गादेरकृतमित०" (२.४.४६) इति, "सङ्ख्यानां ाम्" (१.४.३३) “परिमाणात् तद्धित०" (२.४.२३) इति, “ङसोऽपत्ये" (६.१.२८) “वीप्सायाम्" (७.४.८०) “लुगस्यादेत्यपदे" (२.१.११३) “अवर्णस्येवर्णादिनैदोदरल" (१.२.६) “इवर्णादेरस्वे स्वरे यवरलम्" (१.२.२१) इत्यादिशास्त्रप्रवृत्तिः। (न्यायानामिति) अन्तरङ्गादयश्च न्यायाः, नीयते प्राप्यते निर्णयं सन्देहतुलामधिरूढोऽर्थोऽनेनेति “न्यायाऽवायाऽध्याय०" (५.३.१३४) इति घत्रि न्यायो युक्तीः, न तु स्मृतिशास्त्रम्। तथाहि-अन्तर्मध्येऽङ्गानि निमित्तानि परार्थाद् यस्य तदन्तरङ्गम्, बहिरङ्गानि यस्य तद् बहिरङ्गम्। लोको हि स्वार्थं यतमान एवेष्टार्थ प्रयतते इति न्यायसिद्धा एवैते स्मृतिकारैरनूद्यन्ते। तथा वर्णानां सम्यक्पाठक्रमोऽपि तत एव ज्ञातव्यः, नास्गभिर्नूतनोऽज्झालादिरूपो विधेयः, सर्वज्ञप्रणीतकैवलिकादिशास्त्रेषु ऐन्द्रादिपुर्वव्याकरणेषु च अज्झलादिरूपस्याप्रसिद्धः । तथा च शिक्षाकाराः "विवृत्तकरणाः स्वराः, तेभ्य ए-ओ विवृततरौ ताभ्यामै-औ ताभ्यामप्याकारः, अकारः संवृतः, कादयो मावसानाः स्पर्शाः, अन्तस्था यरलवाः" इति स्वरादिना व्यवहारः । तथा सन्देहातिव्याप्ती अलादिरूपे। तथाहि-“अइउण्” (शिवसूत्रम्-१) “ऋलुक्” (शिवसूत्रम्-२) “एओ” (शिवसूत्रम्-३) “ऐऔच्” (शिवसूत्रम्-४) इत्यत्र “आदिरन्त्येन०" (पा० १.१.७१) इत्यन्त्येनेता सह मध्यवर्णानां ग्राहक इति यथा-अण, ('अक्) एङ्, ऐच, अच् इत्यतैः 'अइउवर्णाः', 'रामानाः', 'गुणः', 'वृद्धिः', 'स्वराः' चाभिधीयन्ते। तथा 'पितोऽङ्” (पा०३.३.१०४) इत्यत्र अङिति प्रत्याहारप्रसङ्गादेकारौकारवर्जितस्वरप्रत्ययप्रसङ्ग इति। व्याख्यानानेति चेत्, तर्हि संदेहः। तथा यथा अवशब्देन स्वरा गृह्यन्ते, तथा ककार-ङकार-णकाराणामपि स्वरत्वेन ग्रहणाद् 'दधि णकारीयति', 'दधि करोति' इत्यादौ - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - १. ला.सू. संपादिते पुस्तके 'इक्' इति पाठो वर्तते।

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484