Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 384
________________ परिशिष्ट-२ ૩૬૧ समवायोऽविष्वाभावलक्षणः स एव सकलधर्माणामिति सम्बन्धेनापि तदभेदः । य एव चोपकारो वस्तुनो वस्तुत्वेन क्रियतेऽर्थक्रियासामर्थ्यलक्षणः, स एव सकलधर्मेरपीत्युपकारेणापि तदभेदः । यथा च वस्तुशब्दो वस्तुत्वं प्रतिपादयति, तथा सकलवस्तुधानपि, तैविना तस्य वस्तुत्वानुपपत्तेरिति शब्देनापि तदभेदः। पर्यायार्थिकप्राधान्ये तु परमार्थतः कालादिभिर्भेद एव, धर्म-धर्मिणोरभेदोपचारात् तु वस्तुशब्देन सकलधर्मविशिष्टस्य वस्तुनोऽभिधानात् सकलादेशो न विरुध्यते; ततः स्याद्वस्तु चेत्यादिशब्दस्तत्त्वमनेकान्तात्मकं प्रतिपादयतीति नानन्तरूपस्यापि वस्तुनो वाचकासम्भवः, सकलादेशवाक्येन तस्य तथा वक्तुं शक्यत्वात्। तच्च सप्तधा-यथा १ स्यादस्त्येव, (२ 'स्यानास्त्येव,) ३ स्यादवक्तव्यमेव, ४ स्यादस्ति नास्त्येव, ५ स्यादस्त्यवक्तव्यमेव, ६ स्यानास्त्यवक्तव्यमेव, ७ स्यादस्तिनास्त्यवक्तव्यमेवेति निरवशेषे जीवादितत्त्वार्थपर्याये भवति, "प्रतिपर्यायं सप्तभङ्गी" इति वचनात्। नन्वस्तित्वं प्रति विप्रतिपन्नमनसां तत्प्रत्यायनाय यथा स्यादस्त्येवेति पदं प्रयोगमर्हति, तथा स्यानास्त्येवेत्यादिपदान्यपि प्रयोगमहेयुः, सप्तधा वचनमार्गस्य स्थापितत्वादिति। नैवम्-स्याच्छब्देनैव शेषाणां द्योतितत्वात्। यदा विधिविकल्पस्य प्रयोगस्तद्विवादविनिवृत्तये स्याद्वादिभिर्विधीयते, तदा निषेधादिविकल्पा: षडपि स्याच्छब्देन याता न पुनः प्रयोगमर्हन्ति, तदर्थे विवादाभावात्, तद्विवादे तु क्रमशस्तत्प्रयोगेऽपि न कश्चिद् दोषः। यतः-"प्रश्नवशादेकवस्तुनि दृष्टेष्टप्रमाणाविरोधेन विधि-प्रतिषेधकल्पना सप्तभङ्गी" इति, ततः स्यात्कारलाञ्छनमेवकारोपहितमर्थवत् सर्वत्र प्रतिपत्तव्यम्। “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग:" (तत्त्वार्थसूत्रे अ०१. सू०१.) इत्यादिशास्त्रवाक्ये 'घटमानय' इत्यादिलोकवाक्ये च प्रतिपत्रभिप्रायवशात् सामर्थ्याद् वा तदवगतेः स्याच्छब्दैवकारयोः प्रयोगाभाव इति लोकशास्त्रविरोधोऽपि नास्ति। ___ "सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात्" (आप्तमीमांसा-श्लो० १५) इत्यादौ च “स्वरूपादिचतुष्टयाद्" इति वचनात् स्याच्छब्दार्थावगतेस्तदप्रयोगः। 'कथञ्चित् ते सदेवेष्टम्' इत्यादौ कथञ्चिदिति वचनात् तत्प्रयोगवदिति। अमति गच्छति धर्मिणमित्यमे: “दम्यमि-तमि०" (उणा० २००) इति ते अन्तो धर्मः; न एकोऽनेकः, अनेकोऽन्तो यस्यासावनेकान्तः, तस्य वदनं तथात्वेन प्रतिपादनम्, तञ्च स्वाभ्युपगतस्यैव भवतीत्युक्तम्। नित्येत्यादि-“नेधूवे" (६.३.१७) (इति) त्यचि नित्यम्-उभयान्तापरिच्छिन्नसत्ताकं वस्तु, तद्विपरीतमनित्यम्। आदीयते गृह्यतेऽर्थोऽस्मादिति "उपसर्गाद् दः किः" (५.३.८७) इति को आदिः, तस्मात् सहभुवः सामान्यादयो धाः, क्रमभुवश्च नव-पुराणादयः पर्याया गृह्यन्ते। धारयति धर्मिरूपमधर्मितां प्रति यत् “अर्तीरिस्तु०" (उणा० ३३८) इति मे धर्मः-वस्तुपर्यायः, धर्ममन्तरेण धर्मिणः स्वरूपनाशात्। शाम्यति विरुद्धैर्धम्मयुगपत् परिणतिमुपयातीति “शमेर्व च वा" (उणा० ४७०) इत्यले शबलम्। एत्यभेदं गच्छति “भीण्-शलि०" (उणा० २१) इति के एकः । वसन्ति सामान्यपर्याय-विशेषरूपा धर्मा अस्मिनिति “वसेर्णिद्वा" (उणा० ७७४) इति तुनि वस्तु। नित्यानित्यादिनाऽनेकेन धर्मेण शबलं यदेकं वस्तु तस्याभ्युपगमः-प्रमाणाविरुद्धोऽङ्गीकारः, तत एव शब्दानां सिद्धिर्भवति, नान्यथा, अत आह-एकस्यैवेति-तथाहि-यस्यैव वर्णस्य ह्रस्वत्वं विधीयते तस्यैव दीर्घत्वादिः, तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य हस्वादिविधेरसम्भवः; एवमनित्यत्वेऽपि जननानन्तरमेव विनाशात् कस्य हस्वादिविधिरिति सामान्यात्मना नित्यः, हस्वादिधात्मना चानित्य इति। तथा द्रव्याणां स्व-पराश्रयसमवेतक्रियानिवर्तकं सामर्थ्य कारकम्, तञ्च काद्यनेकप्रकारमभित्रस्याप्युपलभ्यते; यथा-पीयमानं मधु मदयति, वृक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्यो बिभ्यदनात्मज्ञस्तेभ्य एवात्मानं प्रयच्छंस्तैरेव बन्धमाप्रोतीत्यादि, तञ्च कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्यावस्थान्तराभिव्यक्तरूपोपलम्भाऽभावाद् घटते? इति साध्य-साधनरूपकारकव्यवहारविलोपः। अनित्यत्वेऽपि न घटते, तथाहि-स्वातन्त्र्यं कर्तृत्वम्, तञ्च- - - - - - - - - - - - - १. अयं पाठः पुस्तकेषु नास्ति, अर्थमनुसंधाय प्रक्षिप्तः। - - - - - - - - - -

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484