Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
३६०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન पदेनाभिधानात्, यथाभिहितस्यैव निपातपदेन द्योतयितुं शक्यत्वादिति। पर्यायनयादेशात् तु नास्तित्वाद्येकान्ता मुख्याः, अस्तित्वैकान्तस्तु गुणः प्राधान्येनाविवक्षितत्वाद्, अप्रतिक्षेपाञ्च; तत्र अस्तित्वनिराकरणे तु नास्तित्वादिधर्माणामनुपपत्तेः, कूर्मरोमादिवत् ; नास्तित्वादिभिरपेक्ष्यमाणं हि वस्तुनोऽस्तित्वं स्याच्छब्देन द्योत्यत इति प्रधानगुणभावेनैव स्यादितिनिपातोऽनेकान्तवादद्योतकः । अत एव विध्यर्थिनः प्रतिषेधे प्रतिषेधार्थिनश्च विधौ न प्रवृत्तिरिति अत आह-स्याद्वादोऽनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्। कथमत्यन्तविरुद्धैर्धम्मॆरक्रमभाविभिश्चैककालमेकस्य वस्तुनः प्रदेशाभेदेनैकाधिकरणताशबलत्वं घटते? न हि यस्यैव यत्कालमस्तित्वं तस्यैव तत्कालं नास्तित्वमुपपद्यते विरोधात्, सति तस्मिन् सङ्करप्रसङ्गाचेति। नैष दोषः, अर्पणाभेदादविरोधोऽसङ्करश्चाग्निवत्। तथाहि यथा दाह-शीतज्वराभिभूतशरीरयोर्मध्ये प्रज्वलितः खदिरादिसारेन्धनाभिवद्धितशिखोऽग्निरविशेषोष्णरूपोऽपि दाहज्वराभिभूतशरीरांपेक्षयोद्भूतदुःखहेतुशक्तिकः शीतज्वराभिभूतशरीरापेक्षया चाविर्भूतसुखहेतुशक्तिकः स एव भवति। न च तयोः शक्त्योः परस्परविरोधिन्योरपि भिन्नमधिकरणमस्ति, न चैकाधिकरणत्वात् सङ्करप्रसङ्गः, न चानेकदेशवृत्तिः, नापि कालभेदः, किं तर्हि ? एकस्मिन्नेव काले एकस्मिन्नेवाग्नौ प्रदेशभेदमन्तरेणाविरोधो दृष्टो विरुद्धाभिमतयोरपि, एवं वस्त्वपि स्वरूपार्पणादस्त्येव, पररूपाद्यादेशान्नास्त्येव, द्रव्यार्थताऽपरित्यागानित्यमेव, पर्यायाणामन्यथाभावेऽपि तस्याविनाशाद् ; विनाशप्रादुर्भावसमावेशादनित्यमेवेत्यर्प्यमाणा धा युगपदेकस्मिन् वस्तुनि न विरोधं समाश्रयन्ते। न च सङ्करमिति नास्मान् स्याद्वादप्रकाशोन्मीलितज्ञानचक्षुषः प्रति तवोपालम्भः शोभामावहति। एवं सर्ववस्तुष्वनेकान्तात्मकत्वमविरुद्धमिति। नन्वेवमनेकधर्माधिकरणत्वमेकस्य वस्तुनो न त्वनेकान्तात्मकत्वमभिहितम्, सत्यपि वा तत्प्रतिपादकशब्दासम्भवः । यदुक्तम्
_ "धर्मे धर्मेऽन्य-एवार्थो धर्मिणोऽनन्तधर्मणः" (आप्तमीमांसा-श्लो० २२) इति।
नैवम्-नयादेशे हि वस्तुनो धर्मभेदाद् विशेषो न प्रमाणादेश इति । तथाहि-भावार्थ-व्यवहारवत्तया द्विविधमपि जीवादितत्त्वं सकलरूपमेव, विकलरूपस्य तत्त्वैकदेशत्वात्। भावार्थो हि सद्व्यं विधिः, व्यवहारोऽसदद्रव्यं गुणः, पय (?) (द्रव्य) प्रतिषेधः । तत्र यदा सद्रव्यं जीवो धर्मास्तिकायोऽधर्मास्तिकाय आकाशं कालो मनुष्यादिरिति वा विधिलक्षणभावार्थप्ररूपणायां शब्दः प्रयुज्यते, तदा काला-ऽऽत्मरूप-संसर्ग-गुणिदेशा-ऽर्थ-सम्बन्धोपकार-शब्दैरभेदेनाभेदात्मकस्य वस्तुनोऽभिधानात्, सकलादेशस्य प्रमाणाधीनस्य प्रयोगात् सकलरूपमेव तत्त्वमभिधीयते, सदिति शब्दो हि सकलसद्विशेषात्मकं च तत्त्वं प्रतिपादयति, तथा द्रव्यमिति शब्दो निःशेषद्रव्यविशेषात्मकमद्रव्यगुणाद्यात्मकं च प्रकाशयति, तथैव जीवशब्दो जीवतत्त्वं सकलजीवविशेषात्मकं जीवपर्यायरूपाजीवविशेषात्मकं च कथयति, तथैव धर्म इत्यधर्म इत्याकाश इति काल इति शब्दो धर्ममधर्ममाकाशं कालं च सकलस्वविशेषात्मकं निवेदयति, विधिरूपस्य भावार्थस्य प्राधान्यात्। यदा पुनरसदिति शब्दः प्रयुज्यते, तदाप्यसत्तत्त्वं परद्रव्य-क्षेत्र-काल-भावरूपचतुष्टयापेक्षकालादिभिरभेदोपचारेण सकलासद्विशेषात्मकं तत्त्वं ख्यापयति, व्यवहारस्य भेदप्राधान्यात्, तथैवाद्रव्यमजीव इत्यादिप्रतिषेधशब्दः सकलस्वविशेषात्मकमद्रव्यतत्त्वमजीवादितत्त्वं च प्रतिपादयति, स्यादिति निपातेन तस्य तथैवोद्योतनाद्, एवकारेणान्यथाभावनिराकरणाञ्च, वस्तुतत्त्वमिति शब्दस्तु स्यात्कारलाञ्छन-सैवकारः सकलवस्तुविशेषसदसदादिरूपं तत्त्वं कालादिभिरभेदेनाभेदोपचारेण वा प्रख्यापयति, तस्य भावार्थव्यवहारवत्त्वाद् विधि-निषेधप्राधान्येन युगपदभिधानात्। यत्कालं वस्तुनो वस्तुत्वं तत्काल एव सकलवस्तुविशेषाः, तस्य तद्व्यापकत्वादिति कालेनाभेदस्तेभ्यः। द्रव्यार्थप्राधान्याद् यथा च वस्तुनो वस्तुत्वमात्मरूपम्, तथा सर्वे वस्तुविशेषाः, इत्यात्मरूपेणाभेदः । यथा वस्तुत्वेन वस्तुनः संसर्गस्तथा वस्तुविशेषैरपि, सविशेषस्यैव तस्य सम्यक्सृष्टौ व्यापारात्, ततः संसर्गेणाऽप्यभेदः। यश्च वस्तुत्वस्य गुणस्य वस्तुगुणिदेशः, स एव वस्तुविशेषाणामिति गुणिदेशेनापि न भेदः। य एव चार्थो वस्तुत्वस्याधिकरणलक्षणो वस्त्वात्मा, स एव सकलवस्तुधर्माणामित्यर्थतोऽपि तदभेदः । यश्च वस्तुनि वस्तुत्वस्य सम्बन्धः
- - - - - - - - 'द्रव्यात्म०' इति पाठान्तरम्।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484