SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३६० શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન पदेनाभिधानात्, यथाभिहितस्यैव निपातपदेन द्योतयितुं शक्यत्वादिति। पर्यायनयादेशात् तु नास्तित्वाद्येकान्ता मुख्याः, अस्तित्वैकान्तस्तु गुणः प्राधान्येनाविवक्षितत्वाद्, अप्रतिक्षेपाञ्च; तत्र अस्तित्वनिराकरणे तु नास्तित्वादिधर्माणामनुपपत्तेः, कूर्मरोमादिवत् ; नास्तित्वादिभिरपेक्ष्यमाणं हि वस्तुनोऽस्तित्वं स्याच्छब्देन द्योत्यत इति प्रधानगुणभावेनैव स्यादितिनिपातोऽनेकान्तवादद्योतकः । अत एव विध्यर्थिनः प्रतिषेधे प्रतिषेधार्थिनश्च विधौ न प्रवृत्तिरिति अत आह-स्याद्वादोऽनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्। कथमत्यन्तविरुद्धैर्धम्मॆरक्रमभाविभिश्चैककालमेकस्य वस्तुनः प्रदेशाभेदेनैकाधिकरणताशबलत्वं घटते? न हि यस्यैव यत्कालमस्तित्वं तस्यैव तत्कालं नास्तित्वमुपपद्यते विरोधात्, सति तस्मिन् सङ्करप्रसङ्गाचेति। नैष दोषः, अर्पणाभेदादविरोधोऽसङ्करश्चाग्निवत्। तथाहि यथा दाह-शीतज्वराभिभूतशरीरयोर्मध्ये प्रज्वलितः खदिरादिसारेन्धनाभिवद्धितशिखोऽग्निरविशेषोष्णरूपोऽपि दाहज्वराभिभूतशरीरांपेक्षयोद्भूतदुःखहेतुशक्तिकः शीतज्वराभिभूतशरीरापेक्षया चाविर्भूतसुखहेतुशक्तिकः स एव भवति। न च तयोः शक्त्योः परस्परविरोधिन्योरपि भिन्नमधिकरणमस्ति, न चैकाधिकरणत्वात् सङ्करप्रसङ्गः, न चानेकदेशवृत्तिः, नापि कालभेदः, किं तर्हि ? एकस्मिन्नेव काले एकस्मिन्नेवाग्नौ प्रदेशभेदमन्तरेणाविरोधो दृष्टो विरुद्धाभिमतयोरपि, एवं वस्त्वपि स्वरूपार्पणादस्त्येव, पररूपाद्यादेशान्नास्त्येव, द्रव्यार्थताऽपरित्यागानित्यमेव, पर्यायाणामन्यथाभावेऽपि तस्याविनाशाद् ; विनाशप्रादुर्भावसमावेशादनित्यमेवेत्यर्प्यमाणा धा युगपदेकस्मिन् वस्तुनि न विरोधं समाश्रयन्ते। न च सङ्करमिति नास्मान् स्याद्वादप्रकाशोन्मीलितज्ञानचक्षुषः प्रति तवोपालम्भः शोभामावहति। एवं सर्ववस्तुष्वनेकान्तात्मकत्वमविरुद्धमिति। नन्वेवमनेकधर्माधिकरणत्वमेकस्य वस्तुनो न त्वनेकान्तात्मकत्वमभिहितम्, सत्यपि वा तत्प्रतिपादकशब्दासम्भवः । यदुक्तम् _ "धर्मे धर्मेऽन्य-एवार्थो धर्मिणोऽनन्तधर्मणः" (आप्तमीमांसा-श्लो० २२) इति। नैवम्-नयादेशे हि वस्तुनो धर्मभेदाद् विशेषो न प्रमाणादेश इति । तथाहि-भावार्थ-व्यवहारवत्तया द्विविधमपि जीवादितत्त्वं सकलरूपमेव, विकलरूपस्य तत्त्वैकदेशत्वात्। भावार्थो हि सद्व्यं विधिः, व्यवहारोऽसदद्रव्यं गुणः, पय (?) (द्रव्य) प्रतिषेधः । तत्र यदा सद्रव्यं जीवो धर्मास्तिकायोऽधर्मास्तिकाय आकाशं कालो मनुष्यादिरिति वा विधिलक्षणभावार्थप्ररूपणायां शब्दः प्रयुज्यते, तदा काला-ऽऽत्मरूप-संसर्ग-गुणिदेशा-ऽर्थ-सम्बन्धोपकार-शब्दैरभेदेनाभेदात्मकस्य वस्तुनोऽभिधानात्, सकलादेशस्य प्रमाणाधीनस्य प्रयोगात् सकलरूपमेव तत्त्वमभिधीयते, सदिति शब्दो हि सकलसद्विशेषात्मकं च तत्त्वं प्रतिपादयति, तथा द्रव्यमिति शब्दो निःशेषद्रव्यविशेषात्मकमद्रव्यगुणाद्यात्मकं च प्रकाशयति, तथैव जीवशब्दो जीवतत्त्वं सकलजीवविशेषात्मकं जीवपर्यायरूपाजीवविशेषात्मकं च कथयति, तथैव धर्म इत्यधर्म इत्याकाश इति काल इति शब्दो धर्ममधर्ममाकाशं कालं च सकलस्वविशेषात्मकं निवेदयति, विधिरूपस्य भावार्थस्य प्राधान्यात्। यदा पुनरसदिति शब्दः प्रयुज्यते, तदाप्यसत्तत्त्वं परद्रव्य-क्षेत्र-काल-भावरूपचतुष्टयापेक्षकालादिभिरभेदोपचारेण सकलासद्विशेषात्मकं तत्त्वं ख्यापयति, व्यवहारस्य भेदप्राधान्यात्, तथैवाद्रव्यमजीव इत्यादिप्रतिषेधशब्दः सकलस्वविशेषात्मकमद्रव्यतत्त्वमजीवादितत्त्वं च प्रतिपादयति, स्यादिति निपातेन तस्य तथैवोद्योतनाद्, एवकारेणान्यथाभावनिराकरणाञ्च, वस्तुतत्त्वमिति शब्दस्तु स्यात्कारलाञ्छन-सैवकारः सकलवस्तुविशेषसदसदादिरूपं तत्त्वं कालादिभिरभेदेनाभेदोपचारेण वा प्रख्यापयति, तस्य भावार्थव्यवहारवत्त्वाद् विधि-निषेधप्राधान्येन युगपदभिधानात्। यत्कालं वस्तुनो वस्तुत्वं तत्काल एव सकलवस्तुविशेषाः, तस्य तद्व्यापकत्वादिति कालेनाभेदस्तेभ्यः। द्रव्यार्थप्राधान्याद् यथा च वस्तुनो वस्तुत्वमात्मरूपम्, तथा सर्वे वस्तुविशेषाः, इत्यात्मरूपेणाभेदः । यथा वस्तुत्वेन वस्तुनः संसर्गस्तथा वस्तुविशेषैरपि, सविशेषस्यैव तस्य सम्यक्सृष्टौ व्यापारात्, ततः संसर्गेणाऽप्यभेदः। यश्च वस्तुत्वस्य गुणस्य वस्तुगुणिदेशः, स एव वस्तुविशेषाणामिति गुणिदेशेनापि न भेदः। य एव चार्थो वस्तुत्वस्याधिकरणलक्षणो वस्त्वात्मा, स एव सकलवस्तुधर्माणामित्यर्थतोऽपि तदभेदः । यश्च वस्तुनि वस्तुत्वस्य सम्बन्धः - - - - - - - - 'द्रव्यात्म०' इति पाठान्तरम्। - - - - - - - - - - - - - - - - -
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy