________________
परिशिष्ट-२
'अकारेणोच्यते विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तदन्ते परमं पदम् "
૩૫૯
11911
इति श्लोकेनाह शब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि अर्हमिति पदमुपनिषद्भूतमित्यावेदितं भवति । तदन्त इति तुरीयपादस्यायमर्थः - तस्याहंशब्दस्यान्त उपरितने भागे परमं पदं सिद्धिशिलारूपं तदाकारत्वादनुनासिकरूपा कलाऽपि परमं पदमित्युक्तम्। निघ्नमिति नियमेन हन्यते ज्ञायते पारतन्त्र्येणेति “स्थादिभ्यः कः " ( ५.३.८२) बाहुलकान्नपुंसकत्वम् । दृष्टेति दृष्टं राज्यादि, अदृष्टं स्वर्गादि । आशास्त्रेति-आङ् अभिविधौ, स च शास्त्रेण सह संबध्यते, अवधिशब्दस्तु मर्यादायाम्, स चाध्ययनाध्यापनाभ्याम् । ततोऽयमर्थः - शास्त्रमभिव्याप्य ये अध्ययनाध्यापने ते मर्यादीकृत्य प्रणिधेयमिदमित्यर्थः । प्रणिधानं चतुर्धा-पदस्थम्, पिण्डस्थम्, रूपस्थम्, रूपातीतं चेति । पदस्थमह - शब्दस्थस्य, पिण्डस्थं शरीरस्थस्य, रूपस्थं प्रतिमारूपस्य, रूपातीतं योगिगम्यमर्हतो ध्यानमिति । एष्वाद्ये द्वे शास्त्रारम्भे संभवतो नोत्तरे द्वे । अनेनात्मनः सर्वतः संभेदः इत्युक्ते पदस्थम् । तदभिधेयेनेत्यादिना पिण्डस्थमिति । वयमपीति विशिष्टप्रणिधेय-प्रणिधानादिगुणप्रकर्षादाऽऽत्मन्युत्कर्षाधानाद् गुणबहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद् वयमिति बहुवचनेन निर्देश: तात्त्विक इति तत्त्वमेव "विनयादिभ्य इकण्” ( ७.२.१६९) तत्त्वं प्रयोजनमस्येति वा । । १ । ।
सिद्धिः स्याद्वादात् ।१।१ ।२ । ।
बृ०न्यास—सिद्धिरित्यादि लोके प्रसिद्धसाधुत्वानां शब्दानामन्वाख्यानार्थमिदमारभ्यते । अन्वाख्यानं च शब्दानां प्रकृत्यादिविभागेन सामान्य-विशेषवता लक्षणेन व्युत्पादनम्, तच शब्दार्थसम्बन्धमन्तरेण न सम्भवति, शब्दार्थसम्बन्धसिद्धिश्च स्याद्वादाधीनेत्यत आह-सिद्धिः स्याद्वादादिति - संज्ञा - परिभाषा ऽधिकार विधि प्रतिषेध-नियम-विकल्प- समुच्चयाऽतिदेशाऽनुवादरूपदशविधयोगेष्वयमधिकार आशास्त्रपरिसमाप्तेर्वेदितव्य इति । सिद्धिरिति - सेधतेः सिध्यतेर्वा भावसाधनः क्तिः । सा च द्विविधा - परमार्थव्यवहारभेदात्, तत्र (न)याद्यधिगमोपायाधीना शब्दादितत्त्वप्रतिपत्तिः परमार्थसिद्धिः, प्रकृति - प्रत्ययादिविभागरूपा व्यवहारसिद्धिः, उभयरूपापीयं स्याद्वादादेवोपजायते । स चानेकान्तवाद इत्याह- स्यादित्यव्ययमनेकान्तद्योतकमिति, न तु वाचकम्, निपातत्वादेव । यदि तु वाचकं स्यात्, तदा 'स्यादस्त्येव' इत्यादिप्रयोगे तेनैव सर्वार्थानां प्रतिपादितत्वाच्छब्दान्तरप्रयोगानर्थक्यं पौनरुक्त्यं वा समासज्येत ।
ननु स्यादिति क्रियाप्रतिरूपको निपातोऽनेकान्तस्य द्योतको गुणभावेन भवेत्, प्रधानभावेन वा ? न तावद् गुणभावेन, तद्वाचकपदान्तरस्यापि गुणभावेनैव वाचकत्वप्रसङ्गाद्, यथैव पदान्तरेणाभिधानं तथैव सर्वत्र निपातेन द्योतनम्, अनुक्तस्य तु द्योतने तस्य वाचकत्वप्रसक्तिः, तत्प्रयोगसामर्थ्यात् तत्प्रतिपत्तेः । नापि प्रधानभावेन, अस्तीत्यादिभिः पदैः अस्तित्वादीनामर्थानां साक्षादुक्तत्वात् तद्द्योतनवैयर्थ्याद्, नास्तित्वादीनां चानुक्तत्वादेव न द्योतनमिति । स्यान्मतम्-अस्तीतिपदेनास्तित्वं प्रधानकल्पनयाऽभिधीयते, नास्तित्वादयस्तु स्यादिति निपातेन गुणकल्पनया द्योत्यन्त इति प्रधानगुणभावादनेकान्तप्रकाशकः स्याच्छब्दः, ' एवकारप्रयोगादन्ययोगव्यवच्छेदसिद्धेः। तदप्यसम्यग्, अस्तीतिपदेनानुक्तानां नास्तित्वादिधर्माणां स्याच्छब्देन द्योतने सर्वार्थद्योतनप्रसङ्गात्। सर्वार्थानामेवकारेण व्यवच्छेदान्न तद्द्योतनमित्यपि न वाच्यम्, नास्तित्वादीनामपि तेन व्यवच्छेदादद्योतनप्र 'सङ्गात्, ततो न द्योतकः स्याच्छब्दोऽनेकान्तस्य युज्यते ।
अत्राभिधीयते-अस्तीत्यादिभिः पदैः प्रधान-गुणभावेनैवास्तित्व- नास्तित्वादीनामर्थानामभिधानात्, तथैव स्याच्छब्देन द्योतनाद् दोषाभावः । तथाहि-शुद्धद्रव्यार्थिकप्रधानभावादस्तित्वैकान्तो मुख्यः, शेषा नास्तित्वाद्येकान्ता गुणाः प्रधानभावेनानर्पणादनिराकरणाच्च, नास्तित्वादिनिरपेक्षस्य त्वस्तित्वस्यासम्भवात् खरविषाणवत्, स्याच्छब्देनस्तु तद्द्योतनः प्रधानगुणभावेनैव भवेत्, तथैवास्तीति १. सर्वार्थानामेवकारे (ण) व्यवच्छेदान्न तदुद्योतनमित्यपि न वाच्यम्, नास्तित्वाप्रसङ्गात्' इति ।