________________
૩૫૮
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન नन्वेत्यनेनापि सिध्यति किं प्रकारेण? प्रकारो मानसिकं द्योतयति उपहासनमस्कारं च निराकरोति
"नमस्यं तत् सखि! (प्रेम घण्टारसितसोदरम्।
क्रमक्रशिमनिःसारमारम्भगुरुडम्बरम्" ॥४।।) इत्यादिवत्। परमेति-परमात्मानमित्यत्र “कर्मणि कृतः" (२.२.८३) इति षष्ठी प्राप्नोति, परं "तृनुदन्ता०" (२.२.९०) इति निषेधः । श्रेय इति "प्रशस्यस्य श्रः" (७.४.३४) इति श्रादेशविधानबलात् क्रियाशब्दत्वेनागुणाङ्गादपि प्रशस्यशब्दादीयस्। “नैकस्वरस्य" (७.४.४४) इति निषेधात् “व्यन्त्यस्वरादे०" (७.४.४३) नान्त्यस्वरादिलोपः । “अवर्णवर्णस्य" (७.४.६८) इत्यपि न प्रवर्त्तते। "त्र्यन्त्यस्वरादेरनेकस्वरस्य" (७.४.४३) इत्येकयोगेनैव सिद्धे पृथग्योगकरणमस्यापि बाधनार्थमिति। शब्दानुशासनमिते-अत्र कथं षष्ठीसमासः “तृतीयायाम्" (३.१.८४) इति निषेधात्? सत्यम्-* प्रत्यासत्ति * न्यायेन यस्य कृत्प्रत्ययस्यापेक्षया षष्ठी यदि तदपेक्षयैव तृतीया स्यात्, अत्र तु प्रकाश्यत इत्यस्यापेक्षया तृतीया, अनुशासनेत्यपेक्षया च षष्ठीति न समासनिषेधः । आचार्येति-आचर्यते सेव्यते विनयार्थमिति ध्यण १ । आचारे साधुः “तत्र साधौ” (७.१.१५) (इति) य: २। आचारान् यातीति, “क्वचित्" (५.१.१७१) इति डः ३। आचारानाचष्टे "णिज् बहुलम्०" (३.४.४२) इत्यनेन णिज्। आचारयतीति “शिक्यास्याढ्य०" (उणा० ३६४) इत्यनेन निपात्यते ४। आचारान् गृह्णाति ग्राहयति वा “कर्मणोऽण्" (५.१.७२) पृषोदरादित्वात् साधुः ५। किमपि चिनोति क्विप्, किमः सर्वविभक्त्यन्तात् “चित्-चनौ" इति किञ्चिदिति अखण्डमव्ययं वा। मौलोऽर्थः प्रतीत एव। अथ पूर्वार्धमावृत्त्या व्याख्यायते-परम् आत्मानं च प्रणम्य प्रहीकृत्य सावधानीकृत्येति योगः। किंविशिष्टं परम्? श्रेयःशब्दाननुशासयति श्रेयःशब्दानुशासनस्तम्। किंविशिष्टं चात्मानम्? श्रेयः शब्दाननुशास्ति श्रेयःशब्दानुशासनस्तम्। उभयत्र "रम्यादिभ्यः०" (५.३.१२६) इत्यनट। पूर्वं तावद् बौद्धोक्ता अतिशयाः कथ्यन्ते। परमा-त्मानमित्यनेन स्वार्थसंपत्तिः, स्वार्थसंपत्त्युपायलक्षणश्च द्वौ, श्रेयःशब्दानुशासनमित्यनेन परार्थसंपत्तिः परार्थसंपत्त्युपायलक्षणश्च द्वौ लभ्येते। एवं सर्वदर्शनानुयायित्वेनातिशया भावनीयाः। अत्र च नमस्कारे चतुस्त्रिंशदतिशयसंग्राहकातिशयचतुष्टयमध्ये कः केन पदेनोच्यते सूच्यते वा इत्यभिधीयते-परमात्मानमित्यनेन पूजातिशयः, अत एव “सन्महत्परम०" (३.१.१०७) इत्यनेन पूजायां समासः । द्वितीयपादेन वचनातिशयः, श्रेयांश्च ३ एकशेषे श्रेयांसः, ते च ते शब्दाश्च ताननुशास्तीति व्युत्पत्तेर्वचनातिशयः। वचनातिशयश्च न ज्ञानातिशयं विनेति वचनातिशयेन ज्ञानातिशय आक्षिप्यते। ज्ञानातिशयश्च नापायापगमातिशयं विनेति तेनापायापगमातिशयाऽऽक्षेप:-अपायभूता हि रागादयस्तेषामपगमः स एवातिशय इति।
अर्हमिति-अर्हति पूजामित्यर्हम् “अः" (उणा० २) इत्यः । पृषोदरादित्वात् सानुनासिकत्वम्। अर्हमिति मान्तोऽप्यस्ति निपातः। ननु अर्हमिति अव्ययं स्वरादौ चादौ च न दृष्टम्, तत् कथमव्ययम्? सत्यम्
"इयन्त इति संख्यानं निपातानां न विद्यते।
प्रयोजनवशादेते निपात्यन्ते पदे पदे" ॥५॥ ननु अर्हमिति वर्णसमुदायत्वात् कथमक्षरम्? सत्यम्-न क्षरति न चलति स्वस्मात् स्वरूपादिति अक्षरम्, तत्त्वं ध्येयं परमब्रह्मेति यावत्। व्याख्यानं त्रिधा स्यात्-स्वरूपाख्यानम्, अभिधा, तात्पर्यं चेति। अक्षरमिति स्वरूपाख्यानम्। परमेष्ठिनो वाचकमित्यभिधा। सिद्धचक्रस्यादिबीजमिति तात्पर्यव्याख्यानमिति। परमेष्ठिनः पञ्च ततः शेषचतुष्टयव्यवच्छेदायाऽऽह परमेश्वरस्येति। चतुस्त्रिंशदतिशयरूपपरमैश्वर्यभाजो जिनस्येत्यर्थः । ननु यद्यपि परमेष्ठीति सामान्यं पदं तथापि अहमिति भणनादर्हनेव लभ्यते, किं परमेश्वरस्येतिपदेन? सत्यम्
"देवतानां गुरूणां च नाम नोपपदं विना।
उझरेनैव जायायाः कथञ्चिन्नात्मनस्तथा" ॥६॥ इति। सिद्धेति-सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं तस्य पञ्चबीजानि तेषु चेदमादिबीजम्। सकलेति-सकलाः समस्ता ये आगमा लौकिका लोकोत्तराश्च तेषामुपनिषद्भूतं रहस्यभूतम्। ननु अर्हमित्यस्यार्हद्वाचकत्वे सति कथं लौकिकागमानामुपनिषद्भूतमिदमिति? सत्यम्सर्वपार्षदत्वाच्छब्दानुशासनस्य समग्रदर्शनानुयायी नमस्कारो वाच्यः, अयं चार्हमपि तथा। तथाहि