________________
परिशिष्ट-२
૩૫૭ इत्युक्ते(क्ते:) तथैव दर्शनत्वे(नाञ्च), न हि क्रियाविरहिता एवमेवोदासीनाः फलानि समश्रुवते; यच्चादृष्टात् पुण्यविशेषादखिलं फलं तस्य सङ्कल्पः, शेषं पूर्ववत्। त्रिविधं हि फलम्-किञ्चित् क्रियाजं मनुष्यादीनां व्यापारविशेषात् कृषि-पाशुपाल्य-राज्यादि, किञ्चिद्धि पुण्यादेव व्यापाराभावशालिनां कल्पातीतदेवानाम्, किञ्चिदुभयजं व्यन्तरादीनाम्। यदिवा दृष्टानां प्रत्यक्षेणोपलब्धानां मनुजादीनामदृष्टानां चानुमानगम्यानामखिला ये फले सम्पूर्णाः कल्पा एकहेलयैव समुदिता ईषदूनास्ते (ते)षां कल्पो वा विधानं स एव प्रसरणशीलत्वेन द्रुमः-पादपः स उपसामीप्येन मीयते परिच्छिद्यतेऽनेनेति, एवं हि तस्य परिच्छेदो भवति-योकहेलयैव तत्सङ्कल्पानां सम्पादनं भवति, तत्समर्थं चेदं बीजमिति माहात्म्यविशेषश्चान्येभ्यो महामन्त्रेभ्योऽस्य मन्त्रराजस्यानेन विशेषणेन ख्याप्यते। स्वरूपा-ऽर्थ-तात्पर्यः स्वरूपमुक्त्वा प्रकृते योजयति-आशास्त्राध्ययनाध्यापनावधि प्रणिधेयमिति-'आङ् अभिव्याप्तौ', स च शास्त्रेण सम्बध्यते, अध्ययना-ऽध्यापनाभ्यां सम्बद्धोऽवधिर्मर्यादार्थः । तेनायमर्थः-शास्त्रमभिव्याप्य येऽध्ययनाऽध्यापने ते मर्यादीकृत्य प्रणिधेयमित्यर्थः । प्रणिधानं व्याचष्टे-प्रणिधानं चेत्यादिना-अनुवादमन्तरेण स्वरूपस्य व्याख्यातुमशक्यत्वात् प्रणिधानं चेति स्वरूपमनूदितम्, पुनरर्थ-चशब्दनिर्देशाद्। अनेनेति-अहमिति बीजेन । प्रणिधानस्य च सम्भेदाभेदरूपेण वैविध्यादादौ सम्भेदरूपमाह -सर्वतः सम्भेदः-संश्लिष्टः सम्बद्धो वाऽहंकारेण सह ध्यायकस्य भेदः संभेदः, आत्मानं बीजमध्ये न्यस्तं चिन्तयेद्; एवं च ध्येय-ध्यायकयोः सर्वतः संश्लेषरूपः सम्बन्धरूपश्च भेदो भवति। न च महामन्त्रस्य सकलार्थक्रियाकारित्वेन मन्त्रराजत्वान्मण्डलवर्णादिभेदेनाकर्षणस्तम्भ-मोहाद्यनेकार्थजनकत्वाद् गमनागमनादिरूपत्वेन सम्भेदासम्भवादनैकान्तिकत्वाल्लक्षणाभावो वाच्यः, यतस्तत्र साध्यस्यात्मनोऽन्यत्रात्मी'यात्मन इति विशेषणादिति। तथा (तदभिधेयेनेत्यादि-) तस्याहमित्यक्षरस्य यदभिधेयं परमेष्ठिलक्षणं तेनात्मनोऽभेद एकीभावः। तथाहि-केवलज्ञानभास्वता प्रकाशितसकलपदार्थसार्थं चतुस्त्रिंशदतिशयैर्विज्ञातमाहात्म्यविशेषमष्टप्रातिहार्यविभूषितदिग्वलयं ध्यानाग्निना निर्दग्धकर्ममलकलङ्कं ज्योतीरूपं सर्वोपनिषद्भूतं प्रथमपरमेष्ठिनमर्हट्टारकं आत्मना सहाभेदीकृतं "स्वयं देवो भूत्वा देवं ध्यायेद्" इति यत् सर्वतो ध्यानं तदभेदप्रणिधानमिति। अस्यैव विघ्नापोहे दृष्टसामर्थ्यादन्यस्य तथाविधसामर्थ्यस्याविकलस्यासम्भवात् तात्त्विकत्वादात्मनोऽप्येतदेव प्रणिधेयं वयमपीत्यादिना दर्शयति-विशिष्टप्रणिधेय-प्रणिधानादिगुणप्रकर्षादात्मन्युत्कर्षाधानाद् गुणबहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद् वयमिति बहुवचनेन निर्देशः। अवयवव्याख्यामात्रमुक्तम्, विशेष व्याख्यानस्वरूपं समयाद् गुरुमुखात्(वा) पुरुषविशेषेण ज्ञेयमिति ।।१।। ल.न्यास- "प्रणम्य केवलालोकावलोकितजगत्त्रयम्। जिनेशं श्रीसिद्धहेमचन्द्रशब्दानुशासने" ॥१॥
___ "शब्दविद्याविदां वन्द्योदयचन्द्रोपदेशतः । न्यासतः कतिचिदुर्गपदव्याख्याऽभिधीयते" ॥२॥ प्रणम्येत्यादि-इह निःशेषशेमुषीसमुन्मेषनिर्मितानेकविद्वज्जनमनश्चमत्कारकारिशास्त्रनिकरविस्मापितविशदप्रद्धिमहाद्धिकानेकसूरिः निष्प्रतिमप्रतिभासंभारापहस्तितत्रिदशसूरिः श्रीकुमारपालक्ष्मापालप्रतिबोधविधाननिखिलक्षोणिमण्डलाभयप्रदानप्रभृतिसंख्यातिक्रान्तप्रभावनानिर्माणस्मृतिगोचरसंचरिष्णूकृतचिरन्तनवरस्वाम्यादेप्रवरसूरिः सुगृहीतनामधेयः श्रोहेमचन्द्रसूरिर्निबिडजडिमग्रस्तं समस्तमपि विश्वमवलोक्य तदनुकम्पापरीतचेताः शब्दानुशासनं कर्तुकामः प्रथमं मङ्गलार्थमभिधेयादिप्रतिपादनार्थ चेष्टदेवतानमस्कारमाह-प्रणम्येति-ननु प्रयोगोऽयं भावे कर्मणि वा? उच्यते- भावे एव। तर्हि कथं परमात्मानमिति कर्म? उच्यते
"सकर्मकाणामुत्पन्नस्त्यादि वविवक्षया। अपाकरोति कर्मार्थं स्वभावान पुनः कृतः" ॥३॥
|
'विधानतः एव' इत्यपि पाठोऽस्ति। 'त्रात्मनीया०' इति पाठान्तरम्।
२.