SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ૩૬૩ परोक्तेनापि द्रढयति-नया इत्यादि - नीयन्ते प्राप्यन्ते जीवादयोऽर्था एकदेशेन विशिष्टा एतैरिति नया निरवधारणा अभिप्रायविशेषाः, सावधारणस्य दुर्नयत्वात्, सकलार्थप्राप्तेश्च प्रमाणाधीनत्वात् । ते च नैगमादयः सप्त, ते स्यात्पदेन चिह्निताः सावधारणाश्च अभिप्रेतं फलं फलन्ति-लिहाद्यच् ("लिहादिभ्यः " ५.१.५० ) निष्पादयन्ति अभिप्रेतं फलं येभ्य इति बहुव्रीहिर्वा, यतस्ततो भवन्तमार्याः प्रणताः प्रणन्तुमारब्धा इति । 'हितैषिणः' इति विशेषणद्वारेण हेतु:, हितैषित्वादित्यर्थः । रसेन विद्धाः शुल्वादिधातव इवेति समन्वयः। (भवन्तम्- ) भाति दीप्यते केवलज्ञानश्रिया निरतिशयवीर्येण वेति "भातेर्डवतुः " ( उणा० ८८६) इति भवान् । दूरमन्तिकं वा आरात् सम्यग्ज्ञानाद्यात्मकस्य मोक्षमार्गस्य समीपं याताः प्राप्ताः, दूरं वा पापक्रियाभ्यो याता गता इति नैरुक्ते वर्णादेशे आर्या इति । (हितैषिणः-) आवरणविलयादमलज्ञानाविर्भूतिरूपा शुद्धिः, अन्तरायविनाशाच शक्तिः, तयोः प्रकर्षो हितम्, स्वेन रूपेणात्मनो धारणरूपः सुखादिना पोषरूपश्चान्वर्थोऽपि घटते, तमिच्छन्तीत्येवंशीलाः, आर्यत्वादेव च शीलार्थोऽपि व्यवतिष्ठते, मोक्षे भवे तेषां स्पृहाभावादिति । नन्वस्तु युक्तियुक्तः स्याद्वादस्तदधीना च शब्दसिद्धिः, तथाप्यनभिहिताभिधेयप्रयोजनत्वात् कथमेतत्प्रेक्षावत्प्रवृत्त्यङ्गम्? इत्याशङ्कायामाह-अथवेत्यादि - विविक्तानामसाधुत्वनिर्मुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानलक्षणा सिद्धिर्भवति, शब्दानुशासनस्य साधवः शब्दा अभिधेयाः, यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम् इति सम्यग्ज्ञानमनन्तरं प्रयोजनम्, तद्द्वारेण च निःश्रेयसं परमिति । यतः "व्याकरणात् पदसिद्धिः पदसिद्धेरर्थनिर्णयो भवति । अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् परं श्रेयः ।। ९ ।। इति । तस्मात् सम्यग्ज्ञाननिःश्रेयसप्रयोजनं शब्दानुशासनमारभ्यते । सम्बन्धस्त्वभिधेय-प्रयोजनयोः साध्य-साधनभावलक्षणः, शब्दानुशासनाभिधेययोश्चाभिधानाभिधेयलक्षणः । स च तयोरेवान्तर्भूतत्वात् पृथग् नोपदर्शित इति । ननु यथा प्रयोजनस्याभिलाषजनकतया प्रवर्तकत्वादभिधानम्, तथाऽभिधेयस्यापि शक्यानुष्ठानादिप्रतिपादनार्थत्वात् तस्याप्यभिधानं कर्तव्यम्, न चात्र तदस्ति, तस्यानूद्यमानत्वात्। नैवम्-अनुवादादपि विधेरध्यवसानाद् “अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ । (अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्” ।।१०।। ) काव्यप्रकाशस्य चतुर्थोल्लासे सूत्रम् - ३९ तद्वृत्तिः-लक्षणामूलगूढव्यङ्गयप्राधान्ये सत्येवाविवक्षितं वाच्यं यत्र स 'ध्वनौ' इत्यनुवादाद् ध्वनिरिति ज्ञेयः । तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणतम्, क्वचिदनुपपद्यमानतयाऽत्यन्तं तिरस्कृतम् । कारिकार्थस्तु-अविवक्षितम्-अनुपयुक्तम् अन्वयायोग्यं वा वाच्यं वाच्योऽर्थो यत्र तादृशो यो ध्वनिः तत्र, तस्मिन् ध्वनौ 'उत्तमे काव्ये' वाच्यं वाच्योऽर्थः अर्थान्तरे वाच्यलक्ष्यसाधारणेऽर्थे संक्रमितं परिणमितम्, अत्यन्तं तिरस्कृतं त्यक्तं वा भवेदिति ) इत्यत्र स ध्वनिरिति वदति, तेनाभिधेयप्रयोजनयोः परता तन्निष्ठतापीत्यर्थः सिद्धो भवतीति ।।२।। ल. न्यास - सिद्धिरित्यादि - लोके प्रसिद्धसाधुत्वानां शब्दानामन्वाख्यानार्थमिदं शब्दानुशासनमारभ्यते । अन्वाख्यानं च शब्दानां प्रकृत्यादिविभागेन सामान्य-विशेषवता लक्षणेन व्युत्पादनम् । तच्च शब्दार्थसंबन्धमन्तरेण न संभवति । शब्दार्थसंबन्धसिद्धिश्च स्याद्वादाधीना इत्यत आह-सिद्धिः स्याद्वादात् । दशधा सूत्राणि - संज्ञा - १ परिभाषा - २ ऽधिकार- ३ विधि ४ प्रतिषेध- ५ नियम ६ विकल्प-७ समुचया-८ ऽतिदेशा-९ ऽनुवाद-१० रूपाणि । तत्र " औदन्ताः स्वराः " (१.१.४) इति १ । "प्रत्ययः प्रकृत्यादेः " (७.४.११५) इति २ । "घुटि" (१.४.६८) इति ३। “नाम्यन्तस्थाकवर्गात्० " (२.३.१५) इति ४। "न स्तं मत्वर्थे” (१.१.२३) इति ५ । "नाम सिदय्व्यञ्जने” (१.१.२१) इति ६ । "सौ नवेतौ” (१.२.३८) इति ७ । “शसोऽता०" (१.४.४९) इति ८ । “इदितो वा " (८.४.१) इति ९ । “तयोः समूहवञ्च बहुषु" (७.३.३) इति १० ।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy