________________
૩૫૪
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન :: परिशिष्ट-२ :: प्रथमाऽध्याय-प्रथमपादस्य बृहन्यास-लघुन्यासौ
अहँ ।१।११॥ बन्यास- श्रीमन्तमजितं देवं श्रीमत्पार्श्व जिनोत्तमम्। शेषं निःशेषकर्तारं स्मृत्वा टीका प्रतन्यते ।।१।।
प्रणम्येत्यादि-जगदुपचिकीर्षाप्रवृत्तः शास्त्रकारः स्व-पराभीष्टार्थसिद्धये परापराधिदेवतां व्युत्पित्सुश्रोतृप्रवृत्त्यङ्गप्रयोजनादिगर्भ प्रणम्येत्यादिनाऽभिष्टौति। प्राति पूरयति-धातुनोक्तमर्थमनभिव्यक्तमभिव्यनक्ति प्रः, “णमं प्रहृत्वे" प्रणमनं पूर्वं "प्राक्काले" (५.४.४७) इति क्त्वायाः “अनञः०" (३.२.१५४) इति यबादेशे प्रणम्य। पृणाति लब्धमर्थं पालयति, अलब्धेन तु पूरयति "स-पृ-प्रथि०" (उणा० ३४७) इत्यमे परम:-अतिशयशाली, अतति गच्छति ज्ञानादिषु पर्यायेष्विति "सात्मनात्मन्०" (उणा० ९१६) इति मनि दीर्घत्वे च आत्मा, ततः "सन्महत्०" (३.१.१०७) इत्यादिना समासः। इदं व्याकरणजातं प्रशस्यम्, इदमनयोरतिशयेन प्रशस्यम् "गुणाङ्गाद्वेष्ठेयसू” (७.३.९) इति ईयसौ “प्रशस्यस्य श्रः” (७.४.३४) इति श्रे श्रेयः, विप्रकीर्णातिविस्तरादिदोषरहितत्वात्। शपति-आह्वयत्यभिधेयमर्थमिति “शा-शपि०" (उणा० २३७) इति दे शब्दः, अनुशिष्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति अनुशासनम्, शब्दानामनुशासनं शब्दानुशासनं व्याकरणम्। आचर्यते सेव्यते, आचारान् गृह्णाति परं च ग्राहयतीति निरुक्तेर्वा आचार्य:शास्त्रविधिना स्वयं गुरुणा प्रतिष्ठितः। यद्वा आ सामस्त्येन शास्त्रार्थाश्चर्यन्ते ज्ञायन्तेऽनेन, अस्माद् वेत्याचार्यः-शास्त्रार्थानां ज्ञाता उपदेष्टा च, अस्यैवात्र ग्रहणं शास्त्रप्रस्तावाद्, एवं च विशेषणत्वात् पूर्वनिपातो भवति आचार्यहरिभद्रतिवत्, अन्यथा तु परनिपात-प्रसङ्गः संज्ञाशब्दत्वेन विशेष्यत्वाद् इति। हिनोति गच्छति स्वगुणैरादेयतामिति “क्षु-हिभ्यां वा" (उणा० ३४१) इति मे हेमः-स्वर्णम्, तद्गुणत्वाद् हेमः, “चदु दीप्त्याऽऽह्नादयोः" चन्दति आह्नादयतीति “भी-वृधि०" (उणा० ३८७) इति रे चन्द्रःशशी, तत्समत्वात् चन्द्रः, ततो मयूरव्यंसकादित्वात् कर्मधारयः। “स्मृचिन्तायाम्" स्मृत्वोत-उपदेशपारतन्त्र्येण कृत्वा। किञ्चिदिति स्वल्पं क्रियाविशेषणम्। “काशृङ् दीप्तौ" प्रकाशते शब्दानुशासनम्, “प्रयोक्तृव्यापारे णिग्" (३.४.२०) इति णिगि, “क्यः शिति" (३.४.७०) इति क्ये प्रकाश्यत इति पदार्थः। ।
परमात्मानम्-अव्याहतज्ञानातिशयशालिनं देवताविशेषं प्रणम्य श्रेय:-शब्दानुशासनं शास्त्रं सकलजनानुग्रहकाम्यया क्रियमाणत्वाद् आचार्यहेमचन्द्रेण सर्वज्ञादाक् सर्वप्रकाशनासंभवात् किञ्चित् प्रकाश्यत इति समन्वयः। शब्दानुशासनमिति व्याक-रणस्य अन्वर्थं नामेति शब्दानामनुशासनं न त्वर्थानामिति, एतावत एवार्थस्य विवक्षितत्वात्। आचार्यस्य कर्तुः प्रयोजनाभावाद् अनुपादानाद् उभयप्राप्त्यभावाद् न “द्विहेतोरस्त्र्यणकस्य वा" (२.२.८७) इति षष्ठीपक्षे तृतीयेति "तृतीयायाम्" (३.१.८४) इति समासप्रतिषेधाप्रसङ्गाद् इध्मव्रश्चनवत् समासः। आचार्यहेमचन्द्रेणेति-अस्य तु प्रकाश्यते इत्यनेन संबन्धः। न च शब्दशात' इत्यन्यशब्दत्वाद् विना प्रकरणादिना विशेषेऽवस्थानाभावात् तन्त्रीशब्दकाकवासितादीनामप्यनुशासनप्रसङ्ग इति, यतो व्याकरणस्य प्रस्तुत-त्वात् सामर्थ्याद् विशेषावगतेलौकिकानामार्षाणां च शब्दानामिति गम्यते। अथवा परम् आत्मानं चेति व्यस्तम्, आत्मनोऽपि ध्येय-त्वात्, तस्मिन् हि प्रसन्ने तत्त्वं प्रसीदति। वीतदोषकलुषः पुरुषविशेषः परः, अपरश्चात्मा, उभयपरिज्ञानाञ्च मिथ्याज्ञानादिनिवृत्तिः, यतः
१.
'श्रेयसां शब्दानामनुशासनम्' इति पाठान्तरम। 'शब्दशब्दस्य सामान्यशब्दत्वात्' इति पाठस्तु कैयटे वर्तते स एव संभाव्यते। (भाष्य-भा० १. पृ० ९. निळसाप्रे०)