________________
૩૫ ૫
परिशिष्ट-२
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चैव कर्माणि तस्मिन् दृष्टे परापरे" ।।२।।
(मुण्डकोपनिषद् २.२.८) यदुक्तम्- "वे ब्रह्मणी-परमपरं च
"अपरे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति" इति। "अहरहर्नयमानो गामश्वं पुरुषं पशुम्। वैवस्वतो न तृप्यति सुराया इव दुर्मदी"
।।३।। इतिवत् चकारस्य गम्यमानत्वात् समुच्चयावगतिः। शब्दाश्चात्राभिधेयाः । प्रयोजनं च सम्यग्ज्ञानम्, श्रेयः इति च विशेषणद्वारेण प्रयोजन
अर्हमित्यादि-वाक्यैकदेशत्वात् साध्याहारत्वादध्याह्रियमाणप्रणिधानलक्षणक्रियाकर्मण उक्तत्वाद् “नाम्नः प्रथमैकद्विबहो" (२.२.३१) इत्युत्पन्नाया प्रथमाया अहँ इत्येतस्मात् सूत्रत्वाल्लक्। तदर्थं व्याचष्टे-व्याख्या च स्वरूपाभिधेयतात्पर्यभेदात् त्रेधा, तां च अर्हमितीत्यादिना दर्शयति-तत्राक्षरमिति स्वरूपम्, परमेष्ठिनो वाचकमित्यभिधेयम्, सिद्धचक्रस्येत्यादिना तात्पर्यम्। अक्षरमिति -'अक्षरं बीजम्, तदेवाह-आदिबीजमिति। कस्य तदादिबीजम्? सिद्धचक्ररूपस्य तत्त्वस्य, सबीज-निर्बीजभेदेन तत्त्वस्य द्वैविध्यात्। यद् धर्मसारोत्तरम्
___ "अक्षरमनक्षरं वै द्विविधं तत्त्वमिष्यते।
___ अक्षरं बीजमित्याहुनिर्बीजं चाऽप्यनक्षरम्" ॥४।। इति। यद्वा न क्षरति-न चलति स्वस्मात् स्वरूपादक्षरं तत्त्वं ध्येयं ब्रह्मेति यावत्, वर्ण वा-द्विविधो हि मन्त्रः-कूटरूपोऽकूटरूपश्च। संयुक्तः कूट इति व्यवह्रियते, इतरोऽकूट इति, अत एव चाऽस्माद् “वर्णाव्ययात्०" (७.२.१५६) इति कारं कुर्वते वृद्धाः 'क्षकार' इति, 'ओंकार' इति, 'मल्व्यूँकार'। इति 'अकार' इतिवत् कूटेष्वेकस्यैवाक्षरस्य मन्त्रत्वात्, शेषस्य तु परिकरत्वात्। सपरिकरो हि वर्णो मन्त्रो भवति, केवलस्यार्थक्रियाविरहात्, तस्य च बाह्याभ्यन्तरभेदेन वैविध्याद्, मण्डलमुद्रादेर्बाह्यत्वात्, नादबिन्दुकलादेरा-न्तरत्वात्, तेषामेवोद्दीपकत्वात् तथाभूतानामेव क्रियाजनकत्वाद्, मण्डलमुद्रादीनां केवलानामपि फलजनकत्वात्, विशेषतः समुदितानां ग ... ... ... वाचकमिति।
"देवतानां गुरूणां च नाम नोपपदं विना।
उगरेनैव जायायाः कथञ्चित्रात्मनस्तथा" ॥५।। इति वचनाद् निरुपपददेवतानामोच्चारणस्य प्रतिषेधात्, प्रतिषिद्धाचरणे च प्रायश्चित्तोपदेशात्, सोपपददेवतानामोच्चारणस्यैव प्राप्तत्वात्, अन्यस्य च श्रीप्रभृतेरुपपदस्य तुच्छत्वेन तथाविधवैशिष्ट्याप्रतिपादकत्वाद् वैशिष्ट्यप्रतिपादनार्थं तस्य परमेश्वरस्य इत्युपपदमुपन्यस्यति। परमं यदैश्वर्यमणिमादि यञ्च परमयोगद्धिरूपं तद्वान् परमेश्वरः, यथा महाराज इति, अत्र हि महत्त्वं गुणं विशिषद् द्रव्यं विशिनष्टीति। परमेष्ठिन इति-परमे पदे तिष्ठति यः स परमेष्ठी, अनेन च सविशेषणेन सकलरागादिमलकलङ्कविकलो योगक्षेमविधायी शस्त्राधुपाधिरहितत्वात्, प्रसत्तिपात्रं ज्योतिरूपं देवाधिदेवः सर्वज्ञः पुरुषविशेषः। यदाह
"रागादिभिरनाक्रान्तो योगक्षेमविधायकः।
नित्यं प्रसत्तिपात्रं यस्तं देवं मुनयो विदुः" ॥६॥.. अत्र कतिपयोंऽशः त्रुटितो वर्तते। 'अक्षरबीजम्' इत्यपि पाठो दृश्यते। अत्र सप्तपङ्क्त्यात्मकं त्रुटितं वर्तते।
|مه
-
-
-
-
-
-
-
-
-
-
به
سه