________________
saree
शास्त्रवार्ता- न च संवेदजायेषुमात्रभावेनतद् भवेत्। प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् ॥७३॥ ॥३४॥
न च संखेदजायेषु युकादिषु, मात्रभावेन स्वजनकस्त्रीशरीराभावेन, तच्चैतन्यमनुभवसिद्धमपि भवेत् । एवं च व्यभिचाराद् निमित्तकारणत्वमपि मातृशरीरस्य नास्तीत्याशयः। अत एवाह-प्रदीपज्ञातमपि- यथा दीपाद् दीपान्तरमुत्पद्यते तथा मातृचैतन्यात सुतचैतन्यमिति निदर्शनमपि, प्रदीपस्य निमित्तकारणत्वात् , प्रकृते च तत्वस्याऽप्यभावाद् न बाधकं न पृथगात्म
सिद्धिप्रतिकूलम् । वस्तुतः शरीरविशेष इव चैतन्यविशेषे मातृशरीरस्य निमित्तकारणत्वसंभवेऽप्युपादानत्वस्य सामान्यत एव K कल्पना मातृशरीरस्य सुतचैतन्योपादानत्वं नास्तीति ।। ७३ ॥
फलितमाहइत्थं न तदुपादानं युज्यते तत्कथञ्चन। अन्योपादानभावे च तदेवात्मा प्रसज्यते॥७४॥
इत्थमुक्तन्यायेन, तद् मातृशरीरं, कथश्चन केनापि प्रकारेण, तदुपादानं सुतचैतन्योपादानं, न युज्यते । अन्योपादानभावे च मातृशरीरातिरिक्तसुतचैतन्यसद्भावे च, स एव भूतातिरिक्त आत्मा, तैव प्रसज्यते । शरीरवृद्धि विकारयोश्चैतन्यवृद्धिविकारोपलम्भस्तु न तेदुपादानत्वसाधकः, अजगर-सात्त्विकादौ व्यभिचारात् , शरीरस्य सहकारित्वेऽपीन्द्रियपाटवा-ऽपाटवाभ्यां
स्वशब्देन यूकादि । ३ यूकादौ । ३ निमित्तकारणस्वस्य । ४ चार्वाकस्य । ५ तच्छरीरमुपादानं यस्य चैतन्यस्य तत् तथा तद्भावस्तस्य साधकः ।
PRESIDHIRIDA
Sole
। ॥३४॥
animation
For Private
Personal Use Only