Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 873
________________ Jain Educati प्रयासेन यत् यस्मात् न भवति । तस्मात् कारणात्, असौं- मुक्तिः, ज्ञानाद् मता न तु क्रियात इति ॥ ३४ ॥ क्रियावादिमतमुपन्यस्यन्नाह - क्रियैव फलदा पुंसां नज्ञानं फलदं मतम् । यतः स्त्री भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ क्रियैव- प्रवृत्तिलक्षणा, फलदा पुंसां फलार्थिनाम्, न ज्ञानं फलदं मतम्, यतः - यस्मात् स्त्री- भक्ष्यभोगज्ञो न ज्ञानात् - स्त्री - भक्ष्यभोगज्ञानमात्रात्, सुखितो भवेत्, किन्तु स्त्री- भक्ष्यभोगेणैवेति ॥ ३५ ॥ क्रियाभावे ज्ञानोत्कर्षस्याप्यप्रयोजकत्वमाह क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां सुखसंपद्विवर्जिताः॥३६॥ क्रियाहीनाथ - व्यापारविरहिताश्च यत् यस्मात् लोके- जगति ज्ञानिनोऽप्यालस्योपहताः, हि- निश्चितम्, सुखेन- अन्तरानन्देन, संपदा च लक्ष्म्या विवर्जिताः अत एवान्येषां पश्यतां प्राणिनाम्, कृपायतनं- करुणाभाजनम्, दृश्यन्ते ।। ३६ ।। उपचयमाह | क्रियोपेताश्च तद्योगादुदग्रफलभावतः । मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः ॥ mational For Private & Personal Use Only 90010454001634 www.jainelibrary.org

Loading...

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902