Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
"वाद-विकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्प-मनःपर्ययविरहेऽपि न सिद्धिविरहोऽस्ति ॥१॥" इति ।
एतेन 'स्त्रीणां वेद-मोहनीयादिकर्मणः पुरुषापेक्षया प्रबलत्वात् , प्रबलस्य च कर्मणः प्रबलेनैवानुष्ठानेन क्षपणयोग्यत्वात् । अन्यथा जिनकल्पायुच्छेदापत्तेः, स्त्रीणां च "जिणकप्पिया इत्थी ण हवई" इत्याद्यागमेन जिनकल्पनिषेधात् , विशिष्टचारित्राभावात् कथं प्रबलकर्मक्षपणम् , तदभावे च कथं मोक्षः ?' इति निरस्तम् । पुरुषेभ्यः प्रवलकर्मत्वस्यैव स्त्रीणामसिद्धेः, स्त्रीवेदस्य पुंवेदापेक्षया प्राबल्येऽपि तस्य पुरुषेष्वष्यवाधितत्वात् , नैरन्तर्येण प्रज्वलनस्य चानियतत्वात् । कचित् स्त्रीत्वसहचरितदोषपाबल्येऽपि कचित् पुंस्त्वसहचरितदोषप्राबल्यस्यापि दर्शनात् । अस्तु वा पुरुषापेक्षया स्त्रीणां प्रबलकर्मत्वम् , तथापि तासां भाववैचिच्यादेव विचित्रकर्मक्षयः संभवी । नन्वेवं विशिष्टविहारं विना भाववैचित्र्यसंभावनया जिनकल्पिकादीनां जिनकल्पादौ प्रवृत्तिन स्यादिति चेत् । न, शक्त्यनिगृहनेन संयमवीर्योल्लास एव हि चारित्रं परिपूर्यते "जइ संजमे वि विरियंण णिगृहिजाण हाविजा" इत्यागमात् । जिनकल्पिकादीनां च स्थविरकल्पापेक्षया विशिष्टमार्गे जिनकल्पादौ शक्तानां विपरीतशङ्कया तत्र शक्तिनिगृहने चारित्रमेव हीयेत, कुतस्तरां तदतिरेकाधीनभाववैचित्र्यप्राप्तिसंभावना ? । स्त्रीणां तु विशिष्टमार्गे शक्तिरेव न, इति स्वोचितचारित्रे शक्तिमनिगुह्य प्रवर्तमानानां न नाम शक्तिनिगृहनाधीना चारित्रहानिरस्ति । एवं चोत्तरोत्तरं चारित्रवृद्धिरेव तासां संभवति । इति भाववैचित्र्याधीनो विचित्रकर्मक्षयः । इदमेवाभिप्रेत्योक्तम्
"जिनवचनं जानीते श्रद्धत्ते चरति चार्यका शबलम् । नास्यास्त्यसंभवोऽस्या नादृष्टविरोधगतिरस्ति ॥१॥" इति । १ जिनकल्पिका स्त्री न भवति । २ यदि संयमेऽपि वीर्य न निगृहेद् न हीयेत ।
अखबार
Jain Education Inter
For Private & Personal Use Only
Law.jainelibrary.org

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902