Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 896
________________ Cele । सटीकः। स्तवकः। KO ११॥ शास्त्रवार्ता- ग्यत्वात्, कचित् कदाचिदितरकारणविलम्बादेव कार्यविलम्बात् । यदि च पुंस्वस्थापि मनुष्यत्वादिवद् ज्ञानादिसंपादकतया समुच्चयः। परम्परया मोक्षाङ्गता कलप्यते, तदा स्त्रीत्वेनापि पृथगेषा कल्पनीया, गुरुणायक्लीवत्वेन वा लाघवमात्रेणागमस्यापवदि।।४२९॥ तुमशक्यत्वात् , परस्यापि स्त्री-क्लीबयोरुभयोः कारणविघटकत्वकल्पने गौरवसाम्याच्च । न च पुरुषानभिवन्द्यत्वात् स्त्रीणां न मुक्तिरित्याभिधानीयम्; असिद्धः, भगवजनन्यादीनां जगद्वन्धत्वश्रवणात् , आचार्यानभिवन्यत्वेन शिष्ये, साधुमात्रानभिन्यत्वेन शैक्षे वा व्यभिचारात् , पुरुषानभिवन्द्यत्वस्य मुक्तिपाप्त्यप्रतिबन्धकत्वेनाप्रयोजकत्वाच्च । यदि च तदनभिवन्द्यत्वेन तदपेक्षयानुत्तमगुणत्वाद् न स्त्रीणां मुक्तिरितीष्यते, तदा तीर्थकृद्गुणापेक्षया | गणधरादेरप्यनुत्तमत्वाद् मुक्तिमाप्तिनं भवेत् । अथाशेषकर्मक्षयनिवन्धनस्याध्यवसायस्य गणधरादिपु तीर्थकुदपेक्षया तुल्यत्वादयमदोषः, तदा समानमेतदार्यकास्वपि । यदि च तीर्थस्य भगवदभिवन्द्यत्वात् प्रथमगणधरस्यापि तीर्थशब्दाभिधेयत्वेन तथात्वाद् न दोषः, तदा चातुर्वर्ण्यश्रमणसंघस्यापि तीर्थशब्दाभिधेयत्वादार्यकाणामपि तत्रान्तर्भावात् तुल्यमेतत् । यत्तु 'धर्मे पुरुषोत्तमत्वाविपर्ययशङ्कया स्त्रीणां चारित्रग्रहणं न युक्तम्' इति; तदसभ्यमलपितम् ; आज्ञाशुद्धभावेन यथाशक्ति प्रवर्तमानानामार्यकाणामीदृशशङ्कानुदयात, तस्याः पापजन्यत्वात् । अत एव भगवतामनलतविभूषितत्वादिविपर्ययधीप्रसङ्गादाभरणादिभिर्विभूषा न विधेया' इति हतं परेषां मतम् , तत्करणस्य शुभभावनिमित्ततया कर्मक्षयावन्ध्यकारणत्वात् , विपर्ययशङ्कायाश्च विना कल्मपमनुदयात् । यदि च ध्येयावस्थायां भगवता भूषणादेरनङ्गीकृतत्वाद् न तत्प्रतिकृती तद् विधेयम् , तदा समजना-ऽङ्गराग-पुष्पादिधारणस्यापि तदवस्थायां भगवताऽनाश्रितत्वाद् न तत् तत्र विधेयं स्यात् । अथ मेरुमस्तकादिषु ॥४२९।। Jain Education Internet For Private Personal Use Only EATrainelibrary.org

Loading...

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902