Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
[SUPERTegorosccesar
सप्तमनरकपृथ्वीमाप्तिनिबन्धनाध्यवसायाभावः कुतः प्रतिपन्नः । आप्तागमादिति चेत् । तदाऽशेषकर्मशैलवज्रभूतशुभाध्यवसायोऽपि तत एवाध्यवसीयताम् । न ह्यतीन्द्रिय एवंविधेऽर्थेऽस्मदादेरग्दिश आप्तागमादृतेऽन्यद् बलवत्तरं प्रमाणमस्ति । न च दृष्टे-टाविरोध्याप्तवचनमसत्तानुसारिजातिविकल्पैर्वाधामनुभवति, तेषां प्राप्ताऽ-प्राप्तत्वापादकमतङ्गजविकल्पवदवस्तुसंस्पर्शित्वात् । तदुक्तं भर्तृहरिणा
"अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् , वचनं तेषां नानुमानेन वाध्यते ॥ १॥" इति ।
न चाप्तवचनं स्त्रीनिर्वाणप्रतिपादकमप्रमाणम् , सप्तमनरकमाप्तिपातषेधकं च प्रमाणमिति वक्तुं शक्यम् , उभयत्राप्यातपणीतत्वादेः प्रामाण्यनिवन्धनस्याविशेषात् । न चैकमाप्तपणीतमेव न भवतीति वाच्यम् , इतरत्राप्यस्य सुवचत्वात् , पूर्वापरोपनिबद्धाशेषदृष्टा-ऽदृष्टप्रयोजनार्थप्रतिपादकावान्तरवाक्यसमूहात्मकैकमहावाक्यरूपतयाहदागमस्यैकत्वात् , अवान्तरवाक्यविशेषाप्रामाण्ये सर्वस्याप्यागमस्यापामाण्यप्रसक्तेः । एतेन 'ज्ञानादिपरमप्रकर्षों न स्वीकृतिः, परमप्रकर्षवत्त्वात , सप्तमनरकपृथ्वीगमनापुण्यपरमप्रकर्षवत्' इत्यपि निरस्तम् , मोहनीयस्थिति-स्त्रीवेदपरमप्रकर्षेण च व्यभिचारात् । सप्तमनरकपृथ्वीगमनापुण्यजातीयपरमप्रकर्षत्वस्य हेत्वर्थत्वे च हेतोः पक्षावृत्तित्वात् आत्मपरिणामत्वजात्या तज्जातीयविवक्षायां चोक्तदोषतादवस्थ्यात् । 'चारित्रप्रकर्षो न स्त्रीवृत्तिः, गुणप्रकर्षत्वात् , श्रुतज्ञानप्रकर्षवत्' इत्यत्रापि सम्यग्दर्शनप्रकर्षण व्यभिचारः, ज्ञानप्रकर्ष विनापि चारित्रप्रकर्षस्य माप-तुषादौ सिद्धत्वेनाप्रयोजकत्वं चेति न किश्चिदेतत् । एतेन च 'पुंस्त्वेनैव लघुना। मुक्ति स्वरूपयोग्यता, न तु गुरुणाऽक्लीवत्वेन, इति न स्त्रीणां मुक्तिः' इति कल्पनाप्यपास्ता, भव्यत्वेनैव सिद्धौ स्वरूपयो
Jain Education
a
l
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 893 894 895 896 897 898 899 900 901 902