SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ [SUPERTegorosccesar सप्तमनरकपृथ्वीमाप्तिनिबन्धनाध्यवसायाभावः कुतः प्रतिपन्नः । आप्तागमादिति चेत् । तदाऽशेषकर्मशैलवज्रभूतशुभाध्यवसायोऽपि तत एवाध्यवसीयताम् । न ह्यतीन्द्रिय एवंविधेऽर्थेऽस्मदादेरग्दिश आप्तागमादृतेऽन्यद् बलवत्तरं प्रमाणमस्ति । न च दृष्टे-टाविरोध्याप्तवचनमसत्तानुसारिजातिविकल्पैर्वाधामनुभवति, तेषां प्राप्ताऽ-प्राप्तत्वापादकमतङ्गजविकल्पवदवस्तुसंस्पर्शित्वात् । तदुक्तं भर्तृहरिणा "अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् , वचनं तेषां नानुमानेन वाध्यते ॥ १॥" इति । न चाप्तवचनं स्त्रीनिर्वाणप्रतिपादकमप्रमाणम् , सप्तमनरकमाप्तिपातषेधकं च प्रमाणमिति वक्तुं शक्यम् , उभयत्राप्यातपणीतत्वादेः प्रामाण्यनिवन्धनस्याविशेषात् । न चैकमाप्तपणीतमेव न भवतीति वाच्यम् , इतरत्राप्यस्य सुवचत्वात् , पूर्वापरोपनिबद्धाशेषदृष्टा-ऽदृष्टप्रयोजनार्थप्रतिपादकावान्तरवाक्यसमूहात्मकैकमहावाक्यरूपतयाहदागमस्यैकत्वात् , अवान्तरवाक्यविशेषाप्रामाण्ये सर्वस्याप्यागमस्यापामाण्यप्रसक्तेः । एतेन 'ज्ञानादिपरमप्रकर्षों न स्वीकृतिः, परमप्रकर्षवत्त्वात , सप्तमनरकपृथ्वीगमनापुण्यपरमप्रकर्षवत्' इत्यपि निरस्तम् , मोहनीयस्थिति-स्त्रीवेदपरमप्रकर्षेण च व्यभिचारात् । सप्तमनरकपृथ्वीगमनापुण्यजातीयपरमप्रकर्षत्वस्य हेत्वर्थत्वे च हेतोः पक्षावृत्तित्वात् आत्मपरिणामत्वजात्या तज्जातीयविवक्षायां चोक्तदोषतादवस्थ्यात् । 'चारित्रप्रकर्षो न स्त्रीवृत्तिः, गुणप्रकर्षत्वात् , श्रुतज्ञानप्रकर्षवत्' इत्यत्रापि सम्यग्दर्शनप्रकर्षण व्यभिचारः, ज्ञानप्रकर्ष विनापि चारित्रप्रकर्षस्य माप-तुषादौ सिद्धत्वेनाप्रयोजकत्वं चेति न किश्चिदेतत् । एतेन च 'पुंस्त्वेनैव लघुना। मुक्ति स्वरूपयोग्यता, न तु गुरुणाऽक्लीवत्वेन, इति न स्त्रीणां मुक्तिः' इति कल्पनाप्यपास्ता, भव्यत्वेनैव सिद्धौ स्वरूपयो Jain Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy