________________
स्तबकः। ॥११॥
शास्त्रवार्ता
अथ 'विप्रतिपन्नाऽवलाऽशेषकर्मक्षयनिवन्धनाध्यवसायविकला, अविद्यमानापासप्तमनरकप्राप्त्यविकलकारणकर्मबीजसमुच्चयः।। भूताध्यवसानत्वात् , यो नैवं स नैवम् , यथा संप्रतिपन्नपुरुषः' इति व्यतिरेकिणः स्त्रीषु मुक्तिहेत्वध्यवसायाभावः सिध्य
व्यवसायामाका सिध्य- ॥४२८॥ तीति चेत् । न, अबलातो निवर्तमानस्य यथोक्ताध्यवसानस्य मुक्तिहेत्वध्यवसायनिवर्तकत्वे तत्कारणत्वस्य तद्व्यापकत्वस्य वा तन्त्रत्वात् , आह च न्यायवादी
"तस्मात् तस्माद् न संबद्धः स्वभावो भावमेव वा । निवर्तयेत् कारणं वा कार्यमव्यभिचारतः॥१॥" इति ।
न च तत्कारणत्वं तद्वयापकत्वं वात्र संभवति, योगिनोऽपि यथोक्ताध्यवसानावश्यंभावे नरकप्राप्तिप्रसङ्गात; अन्यथा तदविकलकारणत्वायोगात् । अपि च, नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यं कल्पयितुं शक्यम् , येनोत्कृष्टशुभमनोवीर्यपरिणतिविरह उत्कृष्टशुभमनोवीर्यपरिणतिविरहस्तासां स्यात् । यतो भुजपरिसर्पाः, पक्षिणः, चतुष्पदाः, उरगाश्चाधोगतावुकतो यथाक्रमं द्वितीयाम् , तृतीयाम्, चतुर्थीम् , पञ्चमी च पृथ्वी गच्छन्तिः ऊर्ध्व तु सहस्रारं यावदेवेति । स्यादेतत् तेषामूर्खा-ऽधोगतिवैषम्यं भवस्वाभाव्यादेव, स्त्रीणां तु न तथा, नरभवे सप्तमनरकपृथिव्यामपि | गमनसंभवात् । तस्मात् स्त्रीपर्यायस्यैवायं स्वभावः, यत इमाः सप्तमनरकपृथिव्यां न गच्छन्ति, इति मोक्षेऽपि ता न गच्छन्ति, इति कुतो नासां स्वभावः ? इति । मैवम् , तथाकारणसंपत्त्य-संपत्तिभ्यामेव तथास्त्राभाव्यनिर्वाहात , स्त्रीणां सामनरकगमनकारणासंपत्तौ तद्गमनास्वाभाव्येऽपि मुक्तिकारणसंपत्या तद्गमनस्वाभाव्याबाधात् । एतेन 'ऊर्ध्वगतिपरमोत्कर्ष एवाधोगतिपरमोत्कर्षव्याप्यः, प्रसन्नचन्द्रादौ तथादर्शनात्, तेनान्तरालिकवैषम्यदर्शनेऽपि न क्षतिः' इति निरस्तम् । किञ्च, स्त्रीणां
॥४२८||
Jain Education international
For Private & Personel Use Only
Finel www.jainelibrary.org