Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शास्त्रवार्ता | समुच्चयः । ॥४२५।।
सिद्धाः । एवं नपुंसकशरीरे व्यवस्थिताः सन्तः सिद्धा नपुंसकलिङ्गसिद्धाः । तथा, स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तः सिद्धाः स्वलिङ्गसिद्धाः । अन्यलिङ्गे परिव्राजकादिसंबन्धिन्येव व्यवस्थिताः सिद्धा अन्यलिङ्गसिद्धाः । गृहिलिङ्गे व्यवस्थिताः सिद्धा गृहिलिङ्गसिद्धा मरुदेव्यादयः । एकस्मिन् समय एकका एव सन्तः सिद्धा एकसिद्धाः । एकस्मिन् समयेऽनेकैः सह सिद्धा अनेकसिद्धाः ।
अत्राचक्षते क्षपणका अभिनिवेशपेशल चित्ताः - ' 'स्त्रीलिङ्गसिद्धा:' इत्यत्र 'पूर्व क्षीणस्त्रीवेदाः सन्तः सिद्धाः' इत्ययमर्थ आश्रयणीयः, लिङ्गपदेन मोक्षानङ्गस्यापि वेदस्यात्रोपादानात्, अतीर्थकर सिद्धादाविव मोक्षाङ्गोपाध्युपादाने नियमाभावात्, स्त्रीशरीरावस्थितास्तु न मुक्तिभाजः, स्त्रीत्वात्, व्यतिरेके पुरुषवत् । अथवा, स्त्रियो मोक्षभाजो न भवन्ति, विशिष्टपूर्वाध्ययनलब्ध्यभाववत्त्वात् अभव्यवत्' इति । ते भ्रान्ताः, लिङ्गपदेन वेदोपादानेऽप्युक्तार्थस्य स्त्रीमुक्तिं विनानुपपत्तेः, पूर्व स्त्रीवेदादिक्षयस्य शरीरनिर्वृत्तिनियमनियतत्वात् तथाहि यदि पुरुषः प्रारम्भकस्तदा पूर्व नपुंसक वेदम्, ततः स्त्री वेदम्, ततो हास्यादिषट्कं क्षपयति, ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनको प्रक्षिपति । यदि च स्त्री प्रारम्भिका, ततः प्रथमं नपुंसक वेदम्, ततः पुरुषवेदम्, ततः पद्म्, ततश्च स्त्रीवेदम् । यदि नपुंसकः मारम्भकस्तदा प्रथमं स्त्रीवेदम्, ततः पुरुषवेदम्, ततः षट्म्, ततो नपुंसकवेदमिति । अन्यथा कल्पनं चानागमिकम् । न च 'स्त्रीलिङ्गसिद्धाः' इत्यत्र स्वातिकोऽयमर्थः, सतिसप्तम्याः स्त्रीलिङ्गव्यवस्थितस्यैव स्वरसतो लाभात् । परिभाषा चासंप्रदायिकी कल्पितत्वाद् न प्रमाणमिति न किञ्चिदेतत् ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ११ ॥
॥४२५॥
•www.jainelibrary.org

Page Navigation
1 ... 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902