Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SRO
शास्रवातोंसमुच्चयः। ॥४२४||
AIRE
११॥
SECREASICS
अपरिमितं हि तत: सर्वेषामपि सांसारिकसुखानामेतदनन्तभागवर्तित्वात् , एतदुपमानस्य कस्याप्य लाभात् । यथा हि नगरगुणान् दृष्ट्वा पल्ल्यामागतो भिल्लस्तत्पतिमल्लं कमप्यपश्यन् जाननपि नोपमातुमीष्टे परेषां पुरः, तथा जानन्नपि हि सिद्धसु- खमहिमानमसद्भिरुपमानैः केवल्यपि नोपमातुमीष्टे । इति कथमिव परेषामदो वाचां गोचरः ? इति स्मर्तव्यम् ॥ ५३ ॥
भूयोऽपि परममङ्गलभूतममीषां लक्षणमभिष्टौति। अमूर्ताः सर्वभावशास्त्रैलोक्योपरिवर्तिनः।क्षीणसङ्गा महात्मानस्ते सदा सुखमासते ॥५४॥
अमूर्ताः- नाम-गोत्रकर्मक्षयाद् रूपादिसंनिवेशमयमूर्तिरहिताः, सर्वभावज्ञाः- निरावरणशस्वभावतया सकलपदार्थज्ञातारः, तथा, त्रैलोक्योपरिवर्तिन:- ऊर्ध्वगतिस्वभावत्वेन परतो धर्मास्तिकायाद्यनुपग्रहेण च लोकान्तस्थाः “अलोए पडिहया सिद्धा लोअग्गम्मि पइट्टिया" इत्यागमात् ; तथा, क्षीणसङ्गाः-क्षीणाशेषकर्माणः, अत एव महात्मानः- अष्टगुणयोगित्वेन सर्वथा शुद्धात्मानः, अबोचाम च- "संवहा परमप्पत्तं सिद्धाणं चेव संसिद्धं" । ते-सिद्धाः, सदा-निरन्तरम् , एकरूपतयैवाव्याकुलम् , आसते- अवतिष्ठन्ते ।
ते च सिद्धास्तीर्थादिभेदात सूत्रे पश्चदशविधाः प्रज्ञप्ताः, तथा च प्रज्ञापनासूत्रम्-"अणन्तरसिद्धअसंसारसमावण्णगजी
१ अलोके प्रतिहताः सिद्धा लोकाग्रे प्रतिष्ठिताः । २ सर्वथा परमात्मत्वं सिद्धानामेव संसिद्धम् । ३ अनन्तरसिद्धासंपारसमापन्नकजीवप्रज्ञापना पञ्चदशविधा प्रज्ञप्ता, तद्यथा- तीर्थसिद्धाः, अतीर्थसिद्धाः, तीर्थकरसिद्धाः, अतीर्थकरसिद्धाः, स्वयंबुद्धसिद्धाः, प्रत्येकबुद्ध सिद्धाः, बुद्धबोधितसिद्धाः, स्त्रीलिङ्गसिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिद्धाः, स्वलिङ्गसिद्धाः, अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धाः, एकसिद्धाः, अनेकसिद्धाः ।
॥१२४॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902