SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ SRO शास्रवातोंसमुच्चयः। ॥४२४|| AIRE ११॥ SECREASICS अपरिमितं हि तत: सर्वेषामपि सांसारिकसुखानामेतदनन्तभागवर्तित्वात् , एतदुपमानस्य कस्याप्य लाभात् । यथा हि नगरगुणान् दृष्ट्वा पल्ल्यामागतो भिल्लस्तत्पतिमल्लं कमप्यपश्यन् जाननपि नोपमातुमीष्टे परेषां पुरः, तथा जानन्नपि हि सिद्धसु- खमहिमानमसद्भिरुपमानैः केवल्यपि नोपमातुमीष्टे । इति कथमिव परेषामदो वाचां गोचरः ? इति स्मर्तव्यम् ॥ ५३ ॥ भूयोऽपि परममङ्गलभूतममीषां लक्षणमभिष्टौति। अमूर्ताः सर्वभावशास्त्रैलोक्योपरिवर्तिनः।क्षीणसङ्गा महात्मानस्ते सदा सुखमासते ॥५४॥ अमूर्ताः- नाम-गोत्रकर्मक्षयाद् रूपादिसंनिवेशमयमूर्तिरहिताः, सर्वभावज्ञाः- निरावरणशस्वभावतया सकलपदार्थज्ञातारः, तथा, त्रैलोक्योपरिवर्तिन:- ऊर्ध्वगतिस्वभावत्वेन परतो धर्मास्तिकायाद्यनुपग्रहेण च लोकान्तस्थाः “अलोए पडिहया सिद्धा लोअग्गम्मि पइट्टिया" इत्यागमात् ; तथा, क्षीणसङ्गाः-क्षीणाशेषकर्माणः, अत एव महात्मानः- अष्टगुणयोगित्वेन सर्वथा शुद्धात्मानः, अबोचाम च- "संवहा परमप्पत्तं सिद्धाणं चेव संसिद्धं" । ते-सिद्धाः, सदा-निरन्तरम् , एकरूपतयैवाव्याकुलम् , आसते- अवतिष्ठन्ते । ते च सिद्धास्तीर्थादिभेदात सूत्रे पश्चदशविधाः प्रज्ञप्ताः, तथा च प्रज्ञापनासूत्रम्-"अणन्तरसिद्धअसंसारसमावण्णगजी १ अलोके प्रतिहताः सिद्धा लोकाग्रे प्रतिष्ठिताः । २ सर्वथा परमात्मत्वं सिद्धानामेव संसिद्धम् । ३ अनन्तरसिद्धासंपारसमापन्नकजीवप्रज्ञापना पञ्चदशविधा प्रज्ञप्ता, तद्यथा- तीर्थसिद्धाः, अतीर्थसिद्धाः, तीर्थकरसिद्धाः, अतीर्थकरसिद्धाः, स्वयंबुद्धसिद्धाः, प्रत्येकबुद्ध सिद्धाः, बुद्धबोधितसिद्धाः, स्त्रीलिङ्गसिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिद्धाः, स्वलिङ्गसिद्धाः, अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धाः, एकसिद्धाः, अनेकसिद्धाः । ॥१२४॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy