SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ वपण्णवणा पनरसविहा पण्णता, तं जहा-तित्थसिद्धा, अतित्थसिद्धा, तित्थगरसिद्धा, अतित्थगरासद्धा, सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा, बुद्धबोहिअसिद्धा, इत्थीलिङ्गसिद्धा, पुरिसलिङ्गासिद्धा, णपुंसगलिङ्गसिद्धा, सलिङ्गसिद्धा, अण्णलिङ्गासिद्धा, गिहिलिङ्गसिद्धा, एगसिद्धा, अणेगसिद्धा" इति । तत्र तीर्थे चतुर्वर्णश्रमणसंघरूपे प्रथमगणधररूपे चोत्पन्ने सति सिद्धास्तीर्थसिद्धाः। तीर्थस्याभावेऽनुत्पत्तिलक्षण आन्तरालिकव्यवच्छेदलक्षणे वा सति सिद्धा अतीर्थसिद्धा मरुदेव्यादयः, सुविधिस्थाम्यायपान्तराले विरज्याप्तमहोदयाश्च । तीर्थकरा अवाप्तजिननामोदयार्जितसमृद्धयः सन्तः सिद्धास्तीर्थकरासिद्धाः । अतीर्थकराः सामान्यकेवलिनः सन्तः सिद्धा अतीर्थकरसिद्धाः । स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः सन्तः सिद्धाः स्वयंबुद्धसिद्धाः, ते च तीर्थकरा-ऽतीर्थकरभेदेन द्विविधाः, इह चातीर्थकरैरधिकारः । प्रत्येकं बाह्यं वृषधादिकारणमभिसमीक्ष्य बुद्धाः सन्नः सिद्धाः प्रत्येकबुद्धसिद्धाः। बुद्धगुर्वादिभिर्वाधिताः सन्तः सिद्धा बुद्धबोधितसिद्धाः । खिया लिङ्ग स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा-वेदः, शरीरनिर्वृत्तिः, नेपथ्यं चेति; इह च शरीरनिवृत्यैवाधिकारो न वेदनेपथ्याभ्याम् ; तयोर्मोक्षानङ्गत्वात् । ततस्तमिल्लिङ्गे वर्तमानाः सन्तः सिद्धाः स्त्रीलिङ्गसिद्धाः, आह च नन्द्यध्ययनचूणिकत्| "इत्थीए लिङ्ग इथिलिङ्ग, इत्थीए उवलक्खणं ति वुत्तं हवा । तं च तिविहं- वेदो, सरीरं, वत्थं च । इह सरीराणिवत्तीए अहिगारो, ण वेअ-णेवत्थेहिं"। तथा, पंलिङ्गे पंशरीरनित्तिरूपे व्यवस्थिताः सन्तः सिद्धाः पुंलिङ्ग . स्त्रिया लिङ्ग स्त्रीलिङ्गम् , स्त्रिया उपलक्षणमित्युक्तं भवति, तच त्रिविधम् - वेदः, शरीरम् , नेपथ्यं च । इह शरीरनिवृत्तेरधिकारः, न वेद नेपथ्याभ्याम् । ଅଖି ତା For Private & Personal Use Only Jain Education Intema INTrjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy