Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
साम्राज्यात् । न च तत्र दुःखाभाव एव सुखाभिमानः, शमादितारतम्येन तत्तारतम्यानुभवात् । न चाभिमानिकमेव तत् सुखं न मुक्तावनुवर्तितुमुत्सहत इति वाच्यम्, चुम्बनादिजनितसुखवैलक्षण्येनानुभवात्, अभिमानविरहे तदभिव्यक्तेश्च । नापि मानोरथिकत्वादेव तस्य मुक्तावननुवृत्तिः, संहृतसकलविकल्पानामपि तदनुभवात् । वैषयिकत्वं तु तत्रासंभवदुक्तिकमेव, गादिविषयाणां तदाऽसंनिधानात् । नाप्याभासिकत्वादेव तस्य मुक्तावननुवृत्तिः । न ह्यनभ्यस्तयोगानां शमसुख संभवः । न चाभ्यासोऽसकृत्प्रवृत्तिलक्षणो मुक्तौ संभवतीति वाच्यम्, अभ्यासस्य तत्वज्ञान इव निरुपमसुखेऽपि प्रतिबन्धकनिवर्तकतयैवोपयोगित्वात्, तत्त्वतस्तु तत्र प्रतिबन्धकापगमस्यैव हेतुत्वात् । प्रतिबन्धकं च तत्र व्यावाधाजनकं वेदनीयं कर्मैव । इति सिद्धं व्यावाधाभावसिद्धं सिद्धानां सुखम् । न च धर्माभावात् तदा सुखानुपपत्तिः, तदभावेऽपि तज्जनितसुखनाशकाभावेनानुवृत्तेः, स्थैर्यरूपचारित्रधर्मस्य तदा सद्भावस्यापि ग्रन्थकददभिमतत्वाच्च । उत्पन्ने सिद्धमुखे प्रध्वंसाभावे दृष्टमविनाशित्वमनभ्युपगच्छतः, काप्यदृष्टममच्युतानुत्पन्नमीश्वरज्ञानादिकं चाभ्युपगच्छतः परस्य तु सुस्थितं नैयायिकत्वमिति दिग् ||५२|| एतद्गुणगर्भमेव सिद्धखरूपमभिष्टौति
| सर्वद्वन्द्वविनिर्मुक्ताः सर्वबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ? | ५३ सर्वैर्द्वन्द्वैः शीतोष्णादिभिर्विनिर्मुक्ताः, तथा, सर्वाभिर्वाधाभिः क्षुत्-पिपासादिपीडाभिर्विवर्जिताः, तथा, सर्व संसिद्धं सत्कार्यमानन्दोपयोगि कृत्यं येषां ते तथा । ईदृशा हि सिद्धा भगवन्तः । किमुच्यते तेषां सुखम् ?, परिमिताहेतुकत्वात्,
national
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902