Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 872
________________ शास्त्रबार्तासमुच्चयः। ११७॥ सटीकः। तपकः। ज्ञानहीनाश्च- सम्यगुपायपरिज्ञान विकलाश्च, यत्- यस्मात् , लोके- जगति, महाक्रियाः- अगम्यमानत्वाद् महा- क्रिया अपि पुरुषाः काष्ठवाहकादयः, क्लेशायासपरायणाः- शारीर-मानसदुःखपराः, अतिचिरं कालं ताम्यन्त:- क्लिश्यन्तः, दृश्यन्ते, हि-निश्चितम् , न तु क्रियोत्कर्षेऽप्युत्कृष्टं फलं लभन्ते ॥ ३२॥ तथा, ज्ञानवन्तश्च तवीर्यात्तत्र तत्र स्वकर्मणि। विशिष्टफलयोगेनसुखिनोऽल्पक्रिया अपि ॥३३॥ ज्ञानवन्तश्च- सम्यगुपायपरिज्ञानोपेताश्च, तद्वीर्यात - ज्ञानोत्कर्षात् , तत्र तत्र- अधिकृते स्वकर्मणि रत्नवाणिज्यादौ, | अल्पक्रिया अपि-- अल्पव्यापारा अपि, विशिष्टफलयोगेन- उत्कृष्टधनप्राप्त्या, सुखिनः 'दृश्यन्ते' इति योगः, न तु क्रियापकर्षादपकष्टफलभाजो भवन्ति । धर्मक्रियामाश्रित्यागमेऽप्युक्तम् “जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" ॥३३॥ प्रधानमपि पुरुषार्थमङ्गीकृत्य ज्ञानमेव साक्षादुपयोगीत्याहकेवलज्ञानभावे च मुक्तिरप्यन्यथा न यत्। क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौमता।३४॥ केवल ज्ञानभावे च- केवलज्ञानोत्पादे च, मुक्तिरपि भवति । अन्यथा- केवलज्ञानानुत्पादे, क्रियावतोऽपि यत्नेन१ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञामी विभिगुप्तः क्षय युरछयासमात्रेण ॥१॥ ॥४१७॥ FE Jain Education For Private Personal Use Only

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902