Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
इत्याह- तद्भाव एव केवलज्ञान- शैलेशी क्रियाभाव एव तद्भावात् मुक्युत्पादात्, तदभावेऽपि केवलज्ञान- शैलेश्यन्यतराभावेऽपि, अभावात् - मुक्त्यनुत्पादात् उभयोर्नियतान्वयव्यतिरेकानुविधानेऽप्यन्यतरेणान्यतरासिद्धौ चाविनिगमादिति भावः ।। ४६ ।।
तन्त्रान्तरीया अपि मध्यस्था इत्यमेवास्थितवन्त इत्याह
न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः ॥४७॥ न विविक्तम्- अन्यतरसंयुक्तम् एतद् द्वयम् अन्यैरपि तन्त्रान्तरीयैरपि, सम्यगिष्यते । कुतः ? इत्याह- स्वकार्यसाधनाभावात्, कार्यासाधकस्य चासम्यक्त्वात् । संवादमाह - यथाह व्यासमहर्षिः ॥ ४७ ॥
'बठरश्च तपस्वी च शूरश्चाप्यकृतत्रणः । मद्यपा स्त्री सतीत्वं च राजन् ! न श्रद्दधाम्यहम् ॥४८ |
बरच मूर्खश्व, तपस्वी च- उत्कृष्टतपःकारी चः शूरवापि प्रथममहारादिलैग्यहीनश्वापि, अकृतव्रण:- अनिर्मितक्षतः तथा, मद्यपा - चितभ्रमहेतुमद्यभोगवती, स्त्री, सतीत्वं च पतिव्रतात्वं चः तत्र राजन् ! न श्रद्दधाम्यहमेतत्, शीतोष्णस्पर्शादिवत् परस्परविरुद्धत्वाद् वठरत्व- तपस्वित्वादीनामिति भावः । ननु फलोपहित एव तच्वतो हेतुत्वव्यवहारेऽपि फलोपहितत्वेन न हेतुता, आत्माश्रयात् नापि कुर्वद्रूपत्वेन, भेदविशेषेण वा तेन रूपेणान्वयव्यतिरेकाग्रहात् । किन्तु
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902