Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 876
________________ खवार्तामुच्चयः ॥४१९|| सटीकः । स्तवकः । नेष्यते, तदा फलमनुपदधती क्रियापि क्रियेति नोच्यत एवेत्यभिप्राययानाह- तयोरपिद-ज्ञान-क्रिययोः, तज्ञायः- ज्ञानक्रियाव्यपदेशः, परमार्थेन- निश्चयेन, नान्यथा- न तद्योगमन्तरेण, फलाजुपहितस्प सतोऽकारणत्वात् , कुशूलस्थवीजा-वी- जयोरविशेषात् , कारणस्य च सतः फलोपहितत्वात् , क्षेत्रस्थवीजयदिति भावः ॥ ३९ ॥ एतदेवाहसाध्यमर्थ परिज्ञाय यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव तथा चाह बृहस्पतिः॥४०॥ साध्यमर्थ परिज्ञाय- इष्टत्वसाध्यवादिना प्रमाय, यदि सम्यक्- परिज्ञानानुसारेण, प्रवती साध्योपाये, ततः, तत्- अधिकृतं साध्यम् , साधयत्येव, तथा चाह बृहस्पतिरेतत् संवादि ॥ ४०॥ सम्यक्प्रवृत्तिः साध्यस्थ प्राप्त्युपायोऽभिधीयते। तदप्राप्तावुपायत्वं न तस्या उपपद्यता४१ सम्यक् प्रवृत्तिः- सम्यग्ज्ञानपूर्विका क्रिया, साध्यस्य-- इष्टार्थस्य, प्राप्युपायोऽभिधीयते; तदप्राप्तौ- साध्यापाप्ती सत्याम् , उपायत्वम्-अधिकृतसाध्य हेतुत्वम् , न, तस्याः- सम्यक्पत्तित्वाभिमतायाः, उपपद्यते; अतो नासौ सम्यक् प्रवृत्तिरेवेति भावः ॥४१॥ फलितार्थयाह SIDDROICENTER ॥१९॥ Jain Education Intemaio For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902