Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 825
________________ घातात ; अन्यथा पराघातनामकर्मोदयात् केवली पराहननाद्यपि कुर्यात् । पुण्यप्रकृतयस्तु विशुद्धिप्रकर्षात् पीनविपाकाः कृता इति तद्विपाकमावल्यमेव तत्र' इति केनचिदुच्यते । तत् तुच्छम् , रसघाताद् रसस्येव स्थितिघातात् स्थितेरप्युच्छेदप्रसङ्गात् । तथाविधस्थितौ च व्यवस्थितायां तथाविधरसः कस्य पाणिना पिधेयः ? । अर्वागेव च सर्वथा भवोपग्राहिपापकर्मरसघाते समुद्धातवैयर्थ्यम् । न खलु सत्कर्मसमीकरणायैव समुद्धातः, सत्कर्मण एव चाधिक्यं तदेत्यत्र मानमस्तीति किमुत्सूत्रविस्यन्दितेन । पराघातोदयेन च परेषां दुर्धर्षताद्यभिव्यङ्ग्यं स्वफलं क्रियत एव; परहननादिकं तु मोहकार्यमेव, इति कथं ततस्तदापादनम् ? । परे तूदीरणां विना प्रचुरपुद्गलोपनिपाताभावाद् भगवदसातवेदनीयस्य दग्धरज्जुस्थानिकत्वमूचुः । तदपि न पेशलम् , एवं सति सातवेदनीयस्यापि तथात्वप्रसङ्गात् , सम्यग्दृष्टयायेकादशगुणस्थानेषु गुणश्रेणीसद्भावात् , तदधिकपुद्गलोपसंहारादधिकपीडाप्रसङ्गाच । तस्माद् यथाऽनुभागमेव फलसंभव इति विभावनीयम् । अपरे तु बल-पुण्योदयाभिभूतत्वमेव पापप्रकृतीनां दग्धरज्जुस्थानिकत्वमनुमन्यन्ते । तदप्यसत् , बलवत्सजातीयसातोदयस्य परिवर्तमानतयाऽसातानभिभावकत्वात् । पुण्यप्रकृत्यन्तरोदयस्याभिभावकत्वे च चक्रवादीनामपि क्षुदनीयाद्यभिभवप्रसङ्गात् । एतेन 'देवानामपि पुण्याभिभूतं वेदनीयं नास्मदादिसाधारणक्षुदादिजनकम्, देवाधिदेवानां तु कैच कथा ?' इति पामरपलपितं परास्तम् । न खलु देवानां वेदनीयम् 'अभिभूतम्' इत्येव विचित्रस्वकायाक्षमम् , अपि तु तद्भवोपग्रहनिबन्धनविचित्रादृष्टयशादौदर्यज्वलनविशेषाद्यनुपष्टम्भहेतुकमिति । यदि च सर्वथा भगवति क्लेशो नेष्यते कथं तर्हि "एकादश जिने" १ तत्त्वार्थाधिगमसूत्रे ९ । ११ । Coloratiottes Jain Education in For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902