Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सामर्थ्यादन्यनिषेधप्रतीत्यबाधात् तदाह;
"समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः । तदन्यस्य विकल्पादेर्भवेत् तेन व्यपोहनम् ॥ १ ॥” इति ।
यदपि 'कल्माषवर्णवत् शवलैकरूपो वाक्यार्थः, तत्रान्यनिवृत्त्यनुपपत्तिः, तदवयवस्य विवेक्तुमशक्यत्वात् 'चैत्र ! गामानय' इत्यादावचैत्रादिव्यवच्छेदस्य पदार्थस्यैव प्रत्ययात्' इत्युच्यते तदपि न कार्यकारणभावेन संबद्धानां पदार्थानामेत्र वाक्यार्थत्वात्, तद्वयतिरिक्तनिरवयवस्य शबलात्मनः कल्पापवर्णप्रख्यस्य वाक्यार्थस्यानुपलब्धेः । यदप्युच्यते- 'अनन्या - पोहशब्दादौ वाच्यं न च निरूप्यते' इति तदपि न, वितथविकल्पवासनावशात् तत्र तथाविधार्थविकल्पक्रमेणान्यापोहनिपेधमतिप्रवृत्तेः । यदपि ज्ञेय प्रमेयादिशब्दानां न किञ्चिदपोयमस्ति सर्वस्यैव ज्ञेयादिस्वभावत्वात् इत्यव्यापिन्य पोहव्यवस्था; यदि वा ज्ञेयं कल्पितं कृत्वा सद्व्यवच्छेदेन ज्ञेयेऽनुमानमिष्यते, तदा वरं वस्त्वेव विधिरूपशब्दार्थत्वेन कल्पितं भवेत्' इति तदपि न, संशयादिनिरासार्थं वाक्यगर्भितस्यैव ज्ञेयादिशब्दस्य प्रयोगात्, 'क्षणिकत्वेन ज्ञेया भावा:' इत्यादिवाक्यस्थेन तेन क्षणिकत्वादिनाऽज्ञेयत्वादेः समारोपितस्य व्यावर्तनात् । कथं तर्हि 'अनित्यत्वेन शब्दाः प्रमेया नवा ? इति प्रस्तावे 'प्रमेयाः' इति प्रयोगे प्रकरणानभिज्ञस्यापि प्रतिपत्तुः केवलशब्दश्रवणात् लवमानरूपा शाब्दी धीः ? इति चेत् । न कथञ्चित्, 'घटेनोदकमानयामि, उताञ्जलिना' इति प्रस्तावे तदनभिज्ञस्य 'घटेन' इति शब्दादिव पूर्ववाक्यार्थानुसरणं विनाऽऽकाङ्क्षाया अपरिपूर्तेः, वाक्ये धूपलब्धस्यार्थवतः शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणात् केवलमर्थप्रत्ययाभिमान इति दिग् ॥८॥ अत्र समाधान वार्तामाह
Jain Educatiomational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902