Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 862
________________ POPIC शास्त्रार्ता सटीका स्तवः। । ॥४१२॥ अन्यस्यान्यत्र समये विरोध इत्येतत् परिहरबाह-- ___ A समुच्चयः सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः।वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि सर्ववाचकभावत्वात- देशाद्यपेक्षया विलम्बितादिप्रतीतिजनकत्वेन सर्ववस्तुवाचकस्वभावत्वात् , शब्दानां चित्रHD शक्तितः- विचित्रार्थवोधनशक्तिमत्त्वात् ; वाच्यस्य च तथा- अनेकशब्दवाच्यत्वस्वभावत्वेनानेकप्रतीतिनिबन्धनानेकशक्तिम वात् , अस्य- घटादिशब्दस्य, अन्यत्र- पटादौ, समयेऽपि- संकेतेऽपि, नाऽऽगः- नापराधो वृथानियोगलक्षणः, हिनिश्चितम् , अधिकृतप्रतीतिजनकत्वेनोभयोस्तत्स्वभावत्वात् , नियतसंकेतसहकृतस्य शब्दस्य सर्वार्थान् प्रत्यविशिष्टत्वासिद्धरनतिप्रसङ्गात् , नियतत्वस्य सहकारियोग्यताख्यस्य तनियामकधर्मान्तररूपस्य वा कार्यगम्यत्वात् । अन्यथा चक्रादिसमवहितस्य दण्डादेरपि घटान्यकार्यजननेऽविशिष्टतापत्तेः । 'कुतः पुनरेतत् स्वरूपं शब्दादेः' इति पयनुयोगे तु 'स्वहेतुप्रतिनियमात्' इत्युत्तरं न्यायविदः । न चैवं 'पटो घटपदवाच्यः' इति व्यवहारापत्तिः, यथाप्रमात्रादिभेदं तत्सत्त्वेनेष्टत्वात् । अन्यथा च तदभावादेव पौरुषेयस्य शब्दार्थसंबन्धस्य निरपेक्षत्वासिद्धः। स्वरूपयोग्यतामादाय सामान्यतः 'घटो घटपदवाच्यः' इति व्यवहारस्तु नामादिभेदभिन्नत्वाद् घटपरिणामस्य, पटादेरपि घटपदवाच्यत्वेन घटत्वावच्छेदेनैव घटवाच्यत्वस्य साकावत्वादिति दिग् ॥ २॥ अत्रैवानुक्तदोषपरिहारायाह ॥४१२॥ JOBS For Private Personal Use Only in Education temanona www.jainelibrary.org

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902