Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सटीकः।
समुचयः।
शास्त्रवार्ता
____ अपिच, अवस्तुवाच्यत्वेऽपसिद्धान्तोऽपि परस्येत्याह४१ क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते । अपोहो यन्न संस्कारो न च क्षणिक इष्यते ॥
___ अन्यथा-अवस्तुनो वाच्यत्वे, 'क्षणिकाः सर्वसंस्काराः-कृतकाः सर्व उत्पत्तिमन्तः' इति, एतत्- उक्तम् , विरुध्यते । l कथम् ? इत्याह- अपोहो यद्- यस्मात् , न संस्कारः, अवस्तुत्वात् । न च क्षणिकः- नश्वरः, इष्यते, तत एवेति । नन्वेवं हेतु-साध्योभयाभावे न व्यभिचार इति क विरोधः ?, संस्कारसामान्यमुद्दिश्य क्षणिकत्वविधाने व्याप्यव्यापकभावस्यैव लाभा
दिति चेत् । सत्यम् , तथापि बुद्धिप्रतिभासरूपापोहस्यावस्तुसंस्पर्शन विपर्ययापादने सामर्थ्यप्रतीयमाने तुच्छारोह इवान्यत्रापि O तुच्छत्वेऽपि तथाप्रतीत्युपपत्त्या वा विरोधोद्भावने तात्पर्यात् ॥ २७ ॥
अपि च, एवं शास्त्रादिवयीमपीत्याह8 एवं च वस्तुनस्तत्त्वं हन्त! शास्त्रादनिश्चितम्। तदभावेच सुव्यक्तं तदेतच्छुष्कखण्डनम् ॥
एवं च- कल्पितस्य वाच्यत्वे च, वस्तुनः- स्खलक्षणस्य, तत्त्वम्- अनित्यत्यादिमच्चम् , हन्त ! शास्त्रात्- पिटकत्रयलक्षणात् , अनिश्चितं भवन्नीत्या । तदभावे च- तत्वनिश्चयाभाचे च, सुध्यक्तम् - अतिस्पष्टम् , तदेतत्- शास्त्रपणयनम् , तन्मूलं भवदनुष्ठानं च, शुष्कखण्डनम् , फलकणानासादनात् । अथ शब्दजनित विकल्यात् सामर्थेन तथा खलक्षणप्रतीतेन
४१५॥
in Education I
NTO
For Private & Personal Use Only
alwww.jainelibrary.org

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902