Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 867
________________ Jain Education Intematio " करण्यव्यवहारोपपत्तिः, एकान्तवादिनाऽनेकाकारैकविकल्पस्याभ्युपगन्तुमशक्यत्वात् । न चाताश्विकमनेकत्वमिति न दोषः, एकत्वस्य तात्विकत्वेऽविनिगमात् ज्ञानात्मन्यविद्यमानस्य चानेकस्य स्वसंवेदनेनापरिच्छेदप्रसक्तेः परिच्छेदे वाऽविद्यमानाकारग्राहित्वेनाप्रत्यक्षत्वप्रसङ्गात् सद-ऽसतोरेकत्वा- अनेकत्वयोर्ज्ञानतादात्म्य विरोधेनातदाकारज्ञानवेदने साकारवादक्षतेश्च । एतद्भाज्ज्ञानवैचित्र्योपगमे च बहिरर्थवैचित्र्येण किमपराद्धम् । विवेचिततरं चैतत् इति नेदानीं प्रयासः । अपि च, शब्दार्थ- पोहयोर्जन्यजनकभावरूपवाच्यवाचक भावाभ्युपगम आकाङ्क्षादिज्ञानात् प्रागेव शाब्दधीप्रसङ्गः । पदार्थोपस्थितिस्थानीय प्रतिविम्बे नियमतस्तदक्षिणाद् नायं प्रसङ्ग इति चेत् । न, क्षणिकस्य शब्दस्य तदपेक्षाऽयोगात् ; अनन्तरोत्पन्नशब्दाकारक्षणे स्वक्षणसंयोगरूपापेक्षायोगे च हेतुधर्मस्य कार्ये संक्रमात् शब्दे नियमत आकाङ्क्षादिभानापत्तेः, निरंशस्यांशेनापेक्षाsयोगात् । अपि च, लिङ्ग-संख्यादियोगोऽप्यनन्तधर्मात्मकबाह्यवस्तुसमात्रित एव इति नापोहस्य वाच्यत्वम्, एकत्र स्त्री-पुंनपुंसकाख्यभावत्रयस्य, एकत्व-द्वित्वादिसंख्यायाश्चाविरोधात्, यथात्रिवक्षमनन्तधमाध्यासिते वस्तुनि कस्यचिद् धर्मस्य केनचित् शब्देन प्रतिपादनात् प्रतिनियतोपाधिविशिष्टवस्तुप्रतिभासस्य प्रतिनियतक्षयोपशमविशेषनिमित्तत्वेन शबलाभासानापत्तेः । अपि च, शब्दस्य बहिरर्थापतिपादकत्वेऽदृष्टेषु नदी- देश-पर्वत- द्वीपादिष्वाप्तप्रणीतत्वेन निश्चिताद शब्दात् प्रतिपत्तिर्न स्यात्, अदृष्टे विकल्पानुपपत्तेः । न च तद्विशेषा निश्चयेऽपि न कथञ्चित् ततो निर्णीतिः, प्रत्यक्षस्यापि स्वविषयप्रतिपत्तेः कथश्चिदेव संभवाद् वस्तुविषयस्य प्रत्यक्षस्यानिश्चायकत्वम्, अतथाभूतस्य च विकल्पस्य निश्चायकत्वं च वदतः सौगतस्यैव निर्विकल्पत्वादिति दिग् ॥ २६ ॥ For Private & Personal Use Only www.ainelibrary.org

Loading...

Page Navigation
1 ... 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902