Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 866
________________ शास्त्रवार्ता समुच्चयः । ॥४१४ ॥ कारपरिणत समस्त परमाणुप्रतिभासः, तथैवानिश्चयात् । अत एव "मति श्रुतयोर्निबन्धो द्रव्येष्व सर्व पर्यायेषु" इति समानविपयत्यमक्षज - शाब्दयोस्तत्त्वार्थसूत्रकृता प्रतिपादितम् । न चावस्तुभूतसामान्यविषयत्वादस्यामामाण्यम्, एकाकारमतीतिहेतुत्वेन वस्तुभूतस्य तस्य व्यवस्थापितत्वादिति दिग् || २५ ॥ 'वाच्य इत्थमपोस्तु' इत्युक्तं निराकरोति अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते । असत्त्वाद्वस्तुभेदेन बुद्ध्या तस्यापि बोधतः २६ अपोहस्यापि परपरिकल्पितस्य, वाध्यत्वम् - अभिधेयत्वम्, उपपत्या युक्त्या, न युज्यते । कुतः ? इत्याह- वस्तुभेदेन - वस्तुभिन्नतया, तस्यासच्चात्, विजातीयव्यावृत्तेरपि समानपरिणतिरूपतया वस्तुवाच्यत्त्रपक्षप्रसङ्गात् तुच्छस्य वस्तुना संबन्धायोगात् । विकल्पगतार्थप्रतिविम्ववाच्यत्वमधिकृत्याह- बुद्ध्या - तृतीयाया अभेदार्थत्वाद् विकल्पबुद्ध्य भिन्नस्य, तस्य अपोहस्यापि, बोधतः- अद्वयवोधात् 'भेदेनासत्वात्' इति योगः । न हि बोधमात्रवादिनोऽद्वयव्यतिरिक्तं किञ्चिदस्ति, इति कुत इष्टप्रतिभासस्तै मिरिकादीनां प्रतिभासविशेषेऽपि लोके बोधमात्रसामग्रीभिन्न कर्मतिमिरा पर केश दर्शनादिजो युज्यते, तु बोधमात्र सामग्रीतस्तस्यापरमन्तरेण वैशिष्ट्यायोगात् ? । अपि च, एवं सामान्याधिकरण्यादिव्यवहारोऽच्छित प्रवृत्तिनिमित्तद्वयवत एकस्य वहिर्भूतस्य धर्मिणोऽभावात् । न च भिन्नप्रवृत्तिनिमित्तोप र क्तककारविकल्पादेव सामान्याधि१ तत्वार्थाधिगमसूत्रे १ । २७ । २ प्रकृतस्तव के कारिका ६ । Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥। ११ ॥ ||४१४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902