Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
AREERECOOKES
अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च। वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् ॥२२॥
अनन्तधर्मकं वस्तु, तथातथाऽनेक कार्यकरणात् , एकस्वभावादनककार्यासिद्धेः; तद्धर्मः कश्चिदेव च- अभिधेयपरिणामरूपः, वाच्यः- अभिधेयः, न, सर्व एव- सर्वथेन्द्रियान्तरग्राह्योऽपि, इति; यस्मादेवम् , ततश्चैतद्- वक्ष्यमाणम् , न बाधकम् ॥ २२ ॥
किं तत् ? इत्याहअन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः।शब्दात्प्रत्येतिभिन्नाक्षोन तुप्रत्यक्षमीक्षते।२३।।
अन्यदेवेन्द्रियग्राह्यम्- तात्त्विक स्वलक्षणम् , अन्यत् शब्दस्य गोचरः- सांतं सामान्यलक्षणम् । कुतः ? इत्याहशब्दात् , घटादिशब्दात् , प्रत्येति-जानाति घटादिकम् , भिन्नाक्षः, अपेरध्याहारादन्धोऽपि, न तु प्रत्यक्षमीक्षते चक्षुष्मानिव । ततः स्पष्टत्वा-ऽस्पष्टत्वविरुद्धधर्माध्यासाद् भेद एव दृश्य-विकल्प्ययोः ।। २३ ।।
एतदेव विशिष्य भावयतिअन्यथा दाहसंबन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते॥२४॥
अन्यथा- स्पष्टत्वेन, दाहसंबन्धात-दाहे-न्द्रिययोगात, दाहं दग्धः पुरुषोऽभिमन्यते- एकलोलीभावेन साक्षात्कुरुते;
බපැළඉල්ලා
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902