SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ AREERECOOKES अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च। वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् ॥२२॥ अनन्तधर्मकं वस्तु, तथातथाऽनेक कार्यकरणात् , एकस्वभावादनककार्यासिद्धेः; तद्धर्मः कश्चिदेव च- अभिधेयपरिणामरूपः, वाच्यः- अभिधेयः, न, सर्व एव- सर्वथेन्द्रियान्तरग्राह्योऽपि, इति; यस्मादेवम् , ततश्चैतद्- वक्ष्यमाणम् , न बाधकम् ॥ २२ ॥ किं तत् ? इत्याहअन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः।शब्दात्प्रत्येतिभिन्नाक्षोन तुप्रत्यक्षमीक्षते।२३।। अन्यदेवेन्द्रियग्राह्यम्- तात्त्विक स्वलक्षणम् , अन्यत् शब्दस्य गोचरः- सांतं सामान्यलक्षणम् । कुतः ? इत्याहशब्दात् , घटादिशब्दात् , प्रत्येति-जानाति घटादिकम् , भिन्नाक्षः, अपेरध्याहारादन्धोऽपि, न तु प्रत्यक्षमीक्षते चक्षुष्मानिव । ततः स्पष्टत्वा-ऽस्पष्टत्वविरुद्धधर्माध्यासाद् भेद एव दृश्य-विकल्प्ययोः ।। २३ ।। एतदेव विशिष्य भावयतिअन्यथा दाहसंबन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते॥२४॥ अन्यथा- स्पष्टत्वेन, दाहसंबन्धात-दाहे-न्द्रिययोगात, दाहं दग्धः पुरुषोऽभिमन्यते- एकलोलीभावेन साक्षात्कुरुते; බපැළඉල්ලා Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy