SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ सटीकः। शाखवातासमुच्चयः ॥४१३॥ स्तबकः। ॥११॥ अन्यथा- अस्पष्टतया, दाहशब्देन श्रुतेन, दाहार्थः संप्रतीयते- विकल्पगोचरीक्रियते, अतोऽनुभवसिद्धमेवेन्द्रिय-शब्दार्थयोस्तुच्छा-तुच्छत्वमिति भावः ॥ २४ ॥ __ यथैतस्योक्तस्य न बाधकत्वं तथाहइन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत् । तथाप्रतीतितो भेदाभेदसिद्ध्यैव तस्थिते इन्द्रियग्राह्यतः- इन्द्रियग्राह्याद् धर्मात , अन्योऽपि वाच्यो धर्मः, अपिशब्दादनन्योऽपि । अतो युक्तमिदं यत्- 'शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते' इति, तदभिधेयधर्मस्य कथश्चित ततो भेदात् , अन्यथा प्रतीतिभेदानुपपत्तेः। न च शब्दार्थ नेक्षत एव, कथश्चित तग्राह्यानुविद्धस्यैव शब्दात् प्रतीतेः, यथाक्षयोपशमं तथानुभवादिति । तथा, असौ-दाहशब्दवाच्यो धर्मः, न च दाहकृत-न च दाहकरणशीलः, चशब्दाद् नादाहकृच्च । अतोऽयुक्तामद यदुक्तम्- 'अन्यथा दाहसंबन्धात्' इत्यादि, स्पर्शनन्द्रियगम्यधर्मस्य कथञ्चिदभिधेयधर्मतो भेदात् । न च शब्दादपि न तत्पतीतिरेव, अस्पष्टाकारतया प्रतीतेः, एकत्रापि प्रतिभाससामग्रीभेदात स्पष्टा-ऽस्पष्टप्रतिभासोपपत्तेः । तथादाह वेदनं वसातवेदनीयकर्मोदयादिनिमित्तम, न तु दाहसंबन्धमात्रजमिति न दोपः। रूप्ये हेतमाह- तथाप्रतीतितः- उक्तवादतरतरगर्भप्रतीतेः, भेदाभेदसिद्ध्यैव-जात्यन्तरात्मकभेदाभेदोपपत्यैव, तत्स्थितेः- अभिधेये-न्द्रियग्राह्यधर्मव्यवस्थानात । यदि चैवमपि 1 प्रकृतस्तबके कारिका २३ । ३ प्रस्तुतरूवके कारिका २५ । PC9%99%ESoceedede ॥४१३॥ For Private & Personal Use Only Join Education International www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy