________________
Jain Education Internatio
|स्वाग्रहाद स्पष्टज्ञानं वस्त्वविषयमेवेष्यते, तदा काचादिव्यवहितवस्तुप्रतिभासिदर्शनं दूरस्थवृक्षादिदर्शनं चास्पष्टमुच्छिद्येत । न च तत्र नास्पष्टत्वम्, सामान्योपसर्जनविशेषप्रतिभासत्वेन तत्र सार्वजनीनास्पष्टत्वव्यवहारात् । भ्रान्तत्वे चास्य प्रमाणद्वयानन्तर्भूतस्याज्ञातवस्तुप्रकाश-संवादाभ्यां प्रमाणान्तरतापत्तिः । न चास्य स्वप्रतिभासेऽस्यैव संस्थानविशेषलिङ्गत्वेनानुपाने - saर्भावाद् न प्रमाणान्तरत्वम्, अनुमानस्य च स्वप्रतिभासिन्यनर्थेऽध्यवसायेन प्रवृत्तेर्भ्रान्तत्वम्, भ्रान्तस्यापि च पारम्पर्येण वस्तुप्रतिबन्धात् प्रामाण्यमिति वक्तव्यम्, अनुमानमामाण्यान्यथानुपपत्त्या विकल्पस्य स्वातन्त्रेण प्रामाण्यस्य व्यवस्थापितत्वात्, समानविषयतया प्रवृत्तिविज्ञानजनकत्व पर्यवसितस्यात्रिसंवादकत्वलक्षणस्य प्रामाण्यस्य भ्रान्तेऽयोगाच्च प्रवर्तकत्वमात्रत्वस्य स्वप्रदर्शितार्थप्रदर्शकत्वमात्रस्य च संनिकृष्टज्ञानान्तरे पीतशङ्खादिग्राहिज्ञानान्तरे चातिव्याप्तेिः । अथ तत्रापि ग्राह्ये आरोपित - वस्तुनि स्वाकारे वा प्राप्याभेदाध्यवसायेन प्राप्यांशेन समानविषयतया प्रवर्तकत्वरूपं प्रामाण्यमक्षतम् ; तदुक्तम्- ' ततोऽपि विकल्पात् तदध्यवसायेन वस्तुन्येव प्रवृत्तेः प्रवृत्तौ च प्रत्यक्षेणाभिन्नयोग-क्षेमत्वात्' इति अन्यदप्युक्तम्- 'न ह्याभ्यामर्थं | परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते इति चेत् । न, उभयोरेकस्य विषयसाम्यस्यासिद्धेः, लोकव्यवहारार्थं काल्पनि कस्य तस्याश्रयणे च तन्निर्वाहाय नित्यानित्यवस्तुप्राहकत्वाश्रयणस्यैव युक्तत्वात्; उक्तप्रामाण्यस्योपेक्षणीयार्थाव्यापकत्वात्, दृश्य-प्राप्ययोरर्थयोः कथञ्चिदेकत्वं विना प्रवृत्तिप्रतिनियमानुपपत्तेश्च स्वपरव्यवसायिज्ञानत्वस्यैव प्रामाण्यलक्षणस्य युक्तत्वादिति दिग् । इत्थं च दूरस्थवृक्षादिज्ञानवदस्पष्टस्यापि शाब्दस्य नाप्रामाण्यम्। न चाशेषविशेषाध्यासितवस्तुप्रतिभासबै कल्यादप्यस्य तथात्वमाशङ्कनीयम्, प्रत्यक्षेऽपि तथात्वप्रसक्तेः । न ह्यस्मदादिमत्यक्षे क्षणिकत्व नैरात्म्याद्यशेषधर्माध्यासितसंख्योपेत घटाया
For Private & Personal Use Only
१०००००99999999999999
ainelibrary.org