SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ सामर्थ्यादन्यनिषेधप्रतीत्यबाधात् तदाह; "समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः । तदन्यस्य विकल्पादेर्भवेत् तेन व्यपोहनम् ॥ १ ॥” इति । यदपि 'कल्माषवर्णवत् शवलैकरूपो वाक्यार्थः, तत्रान्यनिवृत्त्यनुपपत्तिः, तदवयवस्य विवेक्तुमशक्यत्वात् 'चैत्र ! गामानय' इत्यादावचैत्रादिव्यवच्छेदस्य पदार्थस्यैव प्रत्ययात्' इत्युच्यते तदपि न कार्यकारणभावेन संबद्धानां पदार्थानामेत्र वाक्यार्थत्वात्, तद्वयतिरिक्तनिरवयवस्य शबलात्मनः कल्पापवर्णप्रख्यस्य वाक्यार्थस्यानुपलब्धेः । यदप्युच्यते- 'अनन्या - पोहशब्दादौ वाच्यं न च निरूप्यते' इति तदपि न, वितथविकल्पवासनावशात् तत्र तथाविधार्थविकल्पक्रमेणान्यापोहनिपेधमतिप्रवृत्तेः । यदपि ज्ञेय प्रमेयादिशब्दानां न किञ्चिदपोयमस्ति सर्वस्यैव ज्ञेयादिस्वभावत्वात् इत्यव्यापिन्य पोहव्यवस्था; यदि वा ज्ञेयं कल्पितं कृत्वा सद्व्यवच्छेदेन ज्ञेयेऽनुमानमिष्यते, तदा वरं वस्त्वेव विधिरूपशब्दार्थत्वेन कल्पितं भवेत्' इति तदपि न, संशयादिनिरासार्थं वाक्यगर्भितस्यैव ज्ञेयादिशब्दस्य प्रयोगात्, 'क्षणिकत्वेन ज्ञेया भावा:' इत्यादिवाक्यस्थेन तेन क्षणिकत्वादिनाऽज्ञेयत्वादेः समारोपितस्य व्यावर्तनात् । कथं तर्हि 'अनित्यत्वेन शब्दाः प्रमेया नवा ? इति प्रस्तावे 'प्रमेयाः' इति प्रयोगे प्रकरणानभिज्ञस्यापि प्रतिपत्तुः केवलशब्दश्रवणात् लवमानरूपा शाब्दी धीः ? इति चेत् । न कथञ्चित्, 'घटेनोदकमानयामि, उताञ्जलिना' इति प्रस्तावे तदनभिज्ञस्य 'घटेन' इति शब्दादिव पूर्ववाक्यार्थानुसरणं विनाऽऽकाङ्क्षाया अपरिपूर्तेः, वाक्ये धूपलब्धस्यार्थवतः शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणात् केवलमर्थप्रत्ययाभिमान इति दिग् ॥८॥ अत्र समाधान वार्तामाह Jain Educatiomational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy