________________
55060sala
शास्त्रबार्ता
अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः।आस्ति शब्दार्थयोयोगस्तत्प्रतीत्यादि तत् ततः॥९॥ सटीकः। समुच्चयः।
स्तचकः। ॥४०८॥ अन्ये तु- जैनाः, अभिदधति, एवं - वक्ष्यमाणप्रकारेण यदुत, वाच्यवाचकलक्षणः- अर्थे शब्दवाच्यतास्वभावरूपः, ॥ ११ ॥
शब्दे चार्थवाचकतास्वभावरूपः, शब्दार्थयोर्योग:- संबन्धः, अस्ति तच्चतः' इति शेषः, संवृत्या तदस्तित्व स्य परेणाप्यभ्युपगमात् । तत्- तस्मात् कारणात् , ततः- शब्दात् , तत्यतीत्यादि- वाच्यमनीति-प्रवृत्ति प्राप्तिनिवेदनाद्यागोपालागनं प्रसिद्धं युज्यते ॥ ९॥
अन्यथा चैतदनुपपत्तिरित्याहनैतद् दृश्य-विकल्प्याथैकीकरणेन भेदतः। एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः॥१०॥
एतत्-शब्दाद् वाच्यप्रतीत्यादि, दृश्य-विकल्प्याथै कीकरणेन- विकल्प्येऽर्थे दृश्याथै क्याध्यवसायेन, न युज्यते । o कुतः ? इत्याह-भेदतः- दृश्य-विकल्प्यार्थयोर्भेदात्, तदभेदाध्यवसायायोगात् । न च मुख्यभेदस्य सांताभेदधियोऽविरोधित्व. मिति वाच्यम् , मुख्य भेदशालित्वे विकल्प्यस्य दृश्यत्वापत्तेः, स्वलक्षगवत् । हेत्वन्तरमाह-एकममात्रभावाच्च- दृश्य-विकल्प्यप्रमातृक्षणयोरेकत्वाभावाच्च, तयोः- दृश्य-विकल्प्पयोः, तचाप्रसिद्धितः-ऐक्पापसिद्धेः, परस्परं स्वलक्षण इतरपतियोग्यभा-. वेनैक्यस्य दुरध्यवसानत्वात् ॥ १० ॥
॥४०८||
8
Jain Education dional
IN
For Private & Personal Use Only
www.jainelibrary.org