________________
स्यादेतद् दृश्य-विकल्प्याथैकीकरणं नामावाद्यालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतीतिः, न तु वस्तुगत्या भिन्नयोस्तयोरेकीकरणम् ; तथाचाह-- शब्दात्तद्वासनाबोधो विकल्पश्च ततो हि यत्। तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः ११ ।
शब्दादिति कारणे कार्योपचारात् शब्दज्ञानात् , तद्वासनाबोधः-विशिष्टविकल्पवासनाबोधः, विकल्पश्च-विशिष्टविकल्पश्च, ततो हि-तत एव विशिष्टवासनाबोधात् , यद्-यस्मात् । तत्-तस्मात् , इत्थमुच्यते-'दृश्य-विकल्प्यावर्थावेकीकृत्य' इत्येवमभिधीयते, अस्माभिः, विकल्पवैशिष्टयाद् गवाद्यर्थप्रतीतेर्गवाद्यर्थप्रवृत्ते, भ्रमात् प्रवृत्तस्यापि स्वलक्षणपतिबन्धेन प्राप्तेर्गवादिबोधनाद्यर्थ निवेदनादेश्वोपपत्तेरिति भावः । एतदाशङ्कयाह-न-नैतदुक्तम्, ततः- शब्दात , तदसिद्धितः- विशिष्टवासनाबोधासिद्धेः ।। ११ ॥
एतदेवोपपादयतिविशिष्टं वासनाजन्म बोधस्तच्च न जातुचित्। अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतःन
विशिष्टम् - तथाविधविकल्पजननस्वभावम् , वासनाजन्म-वासनोत्पाद एव, बोधः-प्रकृतवासनाबोधो वाच्यः; तच्चविशिष्टवासनाजन्म, न जातुचित- न कदाचित, युज्यते । कथम् ? इत्याह- अन्यत:- अन्यस्मात् सहकारिणः, तुल्य
१ सर्वत्र मूले 'ल्पस्य' इति पाठः ।
RE
omala
Jain Education Intent
For Private & Personel Use Only
w
w.jainelibrary.org