Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 852
________________ शास्त्रवार्तासमुच्चयः । 1180011 Jain Education Int कालोsस्ति' इत्यादौ स्वस्मिन् स्वप्रतीत्यनुपपत्तिः, सांवृतत्वे तु तादृशभेदमादायोपपत्तिरिति द्रव्यम् । यदपि 'आख्यातेष्वन्यनिवृत्तेर संप्रत्ययादव्यापिन्यपोहव्यवस्था' इति तदपि न, जिज्ञासितेऽर्थे शब्दप्रयोगेणाभीष्टार्थप्रतिपत्तौ सामर्थ्यात्, उत्सर्गतोऽनभीष्टव्यवच्छेदप्रतीतेः "तथाहि पचतीत्युक्ते नोदासीनोऽवतिष्ठते । भुङ्क्ते दीव्यति वा नेति गम्यतेऽन्यनिवर्तनम् ॥ १ ॥” यच्च- '' पचति' इत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति' इत्युच्यते, तत्र स्ववचनव्याघात एव, एवकारेणान्यरूपनिषेधस्यैवोपदर्शनात् । यदपि ‘'पचति' इत्यादौ पूर्वापरीभूतावयवक्रियास्वरूपस्य साध्यत्वस्य, 'अभूद् भविष्यति' इत्यादौ च भूतादिका ल विशेषस्य प्रतीतिर पोहवादे न स्यात्, अपोहस्य निष्पन्नत्वात्' इत्युच्यतेः तदपि न, निरुपाख्ये बाह्यवस्तुत्वारोपेण निष्पन्नत्वादिधर्मारोपवदेव साध्यत्वादिधर्मारोपस्याप्युपपत्तेः सांकृतार्थप्रतिपत्तिविशेषे शास्त्रकृतनियमापेक्षणेन चानतिप्रसङ्गात् । यदपि 'विध्यादावन्यपोहनिरूपणम्, 'न न पचति चैत्रः' इत्यत्र च नञाऽपरेण नत्रा योगेनैवापोहः प्रतिषेधद्वयेन च विधिरेवावसीयते' इति तदपि न, विध्यादेरर्थस्य निषेध्यादपि व्यावृत्ततयाऽवस्थितत्वात् नञ्द्रय स्थलेऽपि नमन्तराभ्यामवसेयस्यान्यापोहस्य जागरूकत्वात् ; तदुक्तम् "नासौ न पचतीत्युक्ते गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीये नञि गम्यते ॥ १ ॥ तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते । तेनात्र विधिवाक्येन सममन्यनिवर्तनम् ॥ २ ॥ " यदपि 'चादीनामसंबन्धवचनत्वाद् न योगाभावेन तत्रान्यापोहस्याव्यापकत्वम्' इति तदपि न, नञयोगेऽपि तत्र For Private & Perfonal Use Only 99909opoooooooooooooooc सटीकः । स्तबकः । 11 22 11 1180011 www.jainelibrary.org

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902