Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
छका
शास्त्रवार्ता
यच्चोयोतकरणाच्यते- 'निरंशमेकं वस्तु सर्वात्मना विषयी कृतम् , नर्शिन, इति विकल्पस्यैवानवतारः, सर्वशब्द- सटीका समुच्चयः स्यानेकार्थविषयत्वात् , एकशब्दस्य चावयववृत्तित्वात्' इति । तद् वाक्यार्थापरिज्ञानविजृम्भितम् , 'नलिशब्देन सर्वात्मना ।
स्तबकः। ॥४०६॥ तत् प्रकाशितम्' इत्यत्र 'सर्वात्मना' इत्यस्य 'स्वाभिधेयत्वव्याप्यस्वभाववत्चेन' इत्यर्थात् , कृत्स्नै-कदेशविकल्पानुपपत्त्युद्भावनस्य
तत्र वाक्छलमात्रत्वात् । विशेषणशब्देन तादृशस्यैव तद्वस्तुनोऽभिहित्वेन विशेष्यशब्दप्रयोगानुपपत्तेः, प्रयोगे वा पर्याय ताऽऽपातानः तदुक्तम् -
"अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥१॥" इति ।
अस्मत्पक्षे तु नायं दोषः, नीलोत्पलश्रुतिजनितप्रतिबिम्बाभ्यामनीला-अनुत्पलव्यावृत्तस्याध्वसितबाटं करूपस्य विकल्पप्रतिविम्बस्यानुरोधात सांकृतसामान्याधिकरण्योपपत्तेः, उभयोरभिन्न प्रतिविम्बजनकत्वरूपपर्यायवायोगात् । यदपि 'लिङ्गसंख्या-क्रिया-कालादिभिः संबन्धोऽपोहस्यावस्तुत्वादयुक्तः, न च लिङ्गादिविविक्तः पदार्थः शक्यः संबन्धेनाभिधातुम् । न च व्यावृत्याधारभूताया व्यक्तेर्वस्तुत्वात् लिङ्गादिसंबन्धात् तद्द्वारेणापोहस्याप्यसौ व्यवस्थाप्यः, व्यक्तनिर्विकल्पकज्ञानविषयत्वाल्लिङ्ग-संख्यादिसंबन्धेन व्यपदेष्टुमशक्यत्वात् , अपोहस्य तद्वारेण तव्यवस्था सिद्धेः इति तदपि लिङ्गादीनां वस्तुधर्मत्वे शोभते, न तु स्वतन्त्रेच्छाविरचितसंकेतशालित्वेन काल्पनिकत्वे । वस्तुत्वे च लिङ्गस्यैकत्र तटाख्ये वस्तुनि लिङ्गत्रययोगात् त्रैरूप्येण सदा शक्लपतिपत्तिप्रसङ्गः । विवक्षावशादेकरूपप्रतिपत्त्युपगमे च तस्यास्त्र्यात्मकवस्तुविषयताया • अनुपपत्तिः, तदाकारशून्यत्वात् , चक्षुर्विज्ञानस्येव शब्दविषयतायाः। यत्तु 'संस्त्यान-प्रसव-स्थितिषु यथाक्रमं स्त्री-पुं-नपुंसक
॥४०६॥
Jain Education
mariona
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902