Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तमनर्थेऽर्थत्वाध्यवसायिरूपं गृहीतम् । 'तेषु' कल्पनारचितेष्वर्थेषु । 'तत्' इति तस्मात् , तस्य वाऽवस्तुत्वस्य हेतोः। यदप्यपाहवादे'नीलोत्पलादिशब्दानां विशेषणविशेष्यभावस्य सामान्याधिकरण्यस्य च लोकप्रसिद्धस्यापह्नवः स्यात् , नीलोत्पलादिशब्दानां शवलार्थाभिधायित्व एव तदुपपत्तेः 'न हि तत् केवलं नीलम् , न च केवलमुत्पलम् , समुदायाभिधेयत्वात्' इत्यादिना तेषां शवलार्थाभिधायित्वस्योपपादितत्वात्' इति; तदपि न, नीलपदेन पतिादिव्यावृत्तपदार्थाध्यवसायिनो भ्रमर-कोकिलाऽञ्जनादिषु संशय्यमानरूपस्य, उत्पलपदेन च भ्रमरादिभ्यो व्यवच्छिद्यानुत्पलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानस्य परिनिश्चितात्पकस्य विकल्पप्रतिबिम्बस्य जननात् , परस्परं व्यवच्छेदकव्यवस्थाभावाद् विशेषणविशेष्यभावस्त्र, द्वाभ्यां त्वनालाऽनुत्पलव्यावृत्तकप्रतिविम्बात्मकवस्तुप्रतिपादनादेकार्थवृत्तितया सामान्याधिकरण्यस्याप्यविरोधात् । परपक्षे तु तद्वयवस्था दुर्घटा; तथाहि- विधिशब्दार्थपक्षे नीलादिपदेन नलादिस्वलक्षणेऽभिहिते उत्पला-ऽञ्जनादिविशेषसंशयानुपपत्तिः, सर्वात्मना नीलस्याभिहितत्वात , एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाता-ऽज्ञातत्वविरोधात् । एवमुत्पलादिशब्दप्रयोगाकाङ्क्षापि न स्यात् , तदर्थस्य नीलशब्देनैव कृतत्वात् । न च नीलशब्देनैकदेशाभिधानादयमदोषः, एकस्य वस्तुनो देशानुपपत्तेः, एकत्वा-ऽनेकत्वयोर्विरोधात् । न च नीलोत्पलपदाभ्यां नीलवो-त्पलत्वविशिष्टद्रव्याभिधानाद् नाकाङ्क्षाद्यनुपपत्तिः, नीलशब्देनाधिकृतद्रव्यस्य सर्वात्मनाभिधाने उत्पलश्रुतेर्वैयर्थ्यप्रसङ्गस्य तदवस्थत्वात् । अर्थान्तरसंशयव्यवच्छेदायोत्पलश्रुतेः सार्थक्ये च
भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादने विध्यर्थपक्षक्षतः, तद्विषयकनिश्चयचेतसस्तद्विषयकनिश्चयने ततस्तद्विषयHD कारोपचित्तप्रतिबन्धकत्वेन संशयविषयस्य शब्दार्थत्वायोगाच, समानप्रकारकतादेः प्रतिबन्धकतायां निवेशे गौरवात् ।
Jain Education in
For Private & Personel Use Only
Halvww.jainelibrary.org

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902